पृष्ठम्:सिद्दान्तदर्पणम्.djvu/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मन्वशीघ्रवृत्ताति इति । अन्येषां मन्दवृत्तान्यपि भ्रमन्त्येव, न क्वचिदेवावतिष्ठन्ते । तेषां भ्रमतां क प्राधार इत्यत्राह-तन्मध्यं शीघ्रवृत्तगम् इति । तत्र च कियती गतिरित्याह मध्यार्कगतीति । एतदुक्तं भवति-कुजादीनां मन्दवृत्तानां भ्रमतां रविपर्यया एव पर्यया: । ते च स्वस्वशीघ्रोच्चपरिधौ मध्यं कृत्वा भ्रमन्ति । प्रादित्य मध्यगतिरेव तन्मन्दपरिधीनामपि गतिः । अत एव पञ्चानाम् प्रादित्यमध्य मेव शीघ्रोच्चम् । तेषां गतिमन्तो' वा गतयो वा शीघ्रपरिधयः । प्रगतिका श्चेत् क्व कथं वा तिष्ठन्तीत्याद्याकाङ्क्षायामाह तेषां शैघ्रयं भचक्रान्न विक्षिप्तं गोलमध्यगम् ।। २० b ।। इति । तेषां शैध्यवृत्तं सदापि गोलमध्यगमेव, न भ्रमति, न च विक्षिष्यते, भचक्रात् अपमण्डलात् । मन्दोच्चवृत्तानामेव स्वस्वपातगतिवशाद् विक्षेपोक्तेः धृत्य-ङ्ग-मूच्र्छना-ब्धी-श-नागाः स्वांशाङ्घ्रयोर्द्धयोः ।। क्षेपा मन्दोच्चवृत्तानाम् । (सि० दर्पणम्, ८-९) इति । तस्मात् सर्वेषामपि शीघ्रवृत्तं सदापि अपक्रममण्डलसमाननाभिकं तन्मार्ग[ग]मेव च । तत्परिधिगतनाभिक मन्दवत्तमेवापक्रममण्डलमभितो ऽर्धशो विक्षिप्यते । ज्ञशुक्रयोविशेषमधेनाह शैघ्रत्वेन तदंशैः स्वं प्रमायोक्तं ज्ञशुक्रयोः ।। २१ ३ ।। 19 इति । बुधशुक्रयोः स्वभ्रमणमेव शीघ्रपरिधित्वेनोक्तम् । तर्हि चक्रांशतुल्यमेव तत् सदा स्यादिति । नेत्याह-तदंशैः वस्तुतः शीघ्रवृत्तभूतस्य षष्टिशतत्रयांशैः प्रमाय स्वभ्रमणवृत्तं शैघ्रतयोक्तम्, स्वप्रतिमण्डलात् शीघ्रवृत्तस्य महत्वात् । अन्येषां त्रयाणां प्रतिमण्डलादल्पमेव शीघ्रवृत्तम् । तन्निमित्तं स्फुटकर्मविशेष युक्तिभागे वक्ष्यति ग्रहोच्चयोविपर्यस्तौ भोगावप्यत्र कल्पयेत् । (सि० दर्पणम्, २४) -- उत्तराधेन सप्तानां मन्दवृत्तेषु अनुवृत्तं शीघ्रवृत्तेभ्यो व्यावृत्तं विशेषमाह क्याख्या-1. The ms. reads गतिमती