पृष्ठम्:सिद्दान्तदर्पणम्.djvu/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२. २न्यायभागः [ प्रतिभण्डल कक्ष्यामण्डलं च ] ज्ञातभोगग्रहं वृत्तं सर्वत्र प्रातमण्डलम् । कच्यावृत्तं च तत्तुल्यं ज्ञेयभोगप्रदेशगम् ॥ २२ ॥ मन्दवृत्तस्य चैवात्र क्षयवृद्धी स्वकर्णवत् ।। २१b । इति । अत्र, स्फुटहेतुषु द्वादशसु परिधिषु मध्ये मन्दवृत्तानां सप्तानामेव स्वकर्णवत् स्वस्वमन्दकर्णवत् क्षयवृद्धी स्तः, न शैघ्राणाम् । अयमेव मन्दशीघ्रकर्मणो विशेषहेतुः । विक्षेपश्च मन्दक्षेत्रगतानां वृत्तानामेवेति मन्दस्य शैघ्रादप्यधिकं धर्मद्वयं विद्यते ।। १९-२१ ।। एवमुपदेशभागमुपसंहृत्य न्यायभागं च संक्षेपतः प्रदश्र्यते । प्राप्त वचनात् प्रत्यक्षपरीक्षणैवयं भागो ज्ञेयः । वक्ष्यमाणस्तु बुद्धिमतां स्वयं निरूप्यैव ज्ञातुं शक्यम् । तथापि शिष्याणां लाघवाय तद् दिङ्मात्रं प्रदश्र्यते । तत्र प्रथमं स्फुटन्यासं लम्बनादिष्वतिदिशति ज्ञातभोगग्रहं वृत्तं सर्वत्र प्रतिमण्डलम् । कक्ष्यावृत्तं च तत्तुल्यं ज्ञेयभोगप्रदेशगम् ॥ २२ ॥ सर्वत्र शैम्रो मान्दे च कर्मणि, चन्द्रस्य द्वितीयस्फुटकर्मणि, लम्बने, सितमानानयने, चन्द्रमण्डलघनमध्यदष्टयपेक्षया रविगत्यानयने, अन्यत्रापि । ज्ञातभोगग्रहं वृत्तं प्रतिमण्डलम् । ज्ञातो भोगो यस्य ग्रहस्य स ज्ञातभोगः, ज्ञातभोगो ग्रहो यस्य वृत्तस्य तद् वृत्तं ज्ञातभोगग्रहम् । यस्मिन् वृत्ते स्वपरिधिस्थघनमध्य ग्रहस्य कल्पिताद् यत:कुतश्चित् स्थानादेः प्रभृति ग्रहबिम्बघनमध्यपर्यन्तः प्रदेशो ग्रहभुक्तो ज्ञातः, तद् वृत्तं ज्ञातभोगग्रहमित्यर्थः । तद्वत्तमध्यगतदष्टेरेव दृग्गोलगतः ग्रहः तावद्राश्यादिकः स्यात् । तद्वृत्तमध्याद् विप्रकृष्टदृष्टेः पुनः तद्ग्रहपर्यन्तस्य दृग्गोले तद्ग्रहः कुत्र दृश्य इत्यैतत् शीघ्रस्फुटन्यायेन ज्ञेयम्। योऽत्र द्वितीयो दृग्गोल उक्तः तद्व्यासार्धः स्फुटकर्मणि कर्णः । यत्तु ज्ञातभोग ग्रहस्य प्रथमोक्तस्य व्यासार्ध तत् त्रिज्यास्थानीयम् । तत्तुल्यव्यासार्धमन्य न्मण्डलं ज्ञेयभोगप्रदेशमध्यग्रहसूत्रस्पृक्परिधिकं कल्प्यम् । तत् कक्ष्यावृत्तमिति आर्यभटाद्येराख्यायते । एतत् स्फुटकर्मणि छायालम्बनादिषु च स्पष्टी भविष्यति ।। २२ 20