पृष्ठम्:सिद्दान्तदर्पणम्.djvu/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त एवाप्युच्चनीचाख्ये बहिश्चेदितरेतरम् । तद्वयासार्धान्तरे चान्ये तन्मध्यान्तरनिर्मिते ॥ २३ ॥ ग्रहोच्चयोर्विपर्यस्तौ भोगावप्यत्र' कल्पयेत् । तिर्यक्त्वे ज्ञेयभोगात्तत् कोटीव्यासदले तयोः ॥ २४ ॥ तत्रैव विशेषमाह त एवाप्युच्चनीचाख्ये बहिश्चेदितरेतरम् । तद्वयासार्धान्तरे चान्ये तन्मध्यान्तरनिर्मिते ॥ २३ ॥ ग्रहोच्चयोर्विपर्यस्तौ भोगावप्यत्र कल्पयेत् ।। २४ a ।। मूलम्- 1 . इति । ते कक्ष्याप्रतिमण्डले, अन्योन्यं बहिर्गतकेन्द्रे चेत् त एव उच्चनीचाख्ये स्तः । तदा अन्यकक्ष्याप्रतिमण्डले तन्मध्यान्तरनिर्मिते स्त : । तच्छब्देन उच्च नीचाख्यत्वमापन्ने उच्येते । तन्मध्ययोरन्तरालं तन्मध्यान्तरम् । तत्तुल्येन व्यासाधेन भ्राम्यमाणेन निर्मिते द्वे वृत्ते तदा कक्ष्याप्रतिमण्डले स्तः । तन्मध्ययोरन्तरं च कियदित्याह--तद्व्यासार्धान्तरे इति । उच्चनीचत्वमापन्नयो वृत्तयोरुभयोस्तुल्यं व्यासार्ध यावत् तावदेव पुनः कल्पितयोः कक्ष्याप्रतिमण्डलयो र्मध्ययोरन्तरालमित्यर्थः ।। २३ ।। ज्ञेयभोगग्रहस्य ज्ञातभोगग्रहस्य च कथंभूतः सम्बन्ध इत्याह इत्येत च्चोपरितनेन ग्रन्थेन 21 ग्रहोच्चयोर्विपर्यस्तौ भोगावप्यत्र कल्पयेत् । तिर्यक्त्वे ज्ञेयभोगात्तत् कोटीव्यासदले तयोः ।। २४ ।। किञ्च– अत्र उच्चनीचवृत्तात् स्वभ्रमणवृत्तस्याल्पत्वेन उच्चनीच वृत्तत्वप्राप्तौ ग्रहोच्चोयोर्मोगावपि विपर्यस्तौ कल्पयेत् । स्वभ्रमणवृत्ते ग्रहभुक्ते राश्यादिकमुच्चं कल्पयेत् । स्वभ्रमणवृत्तमध्येन वृत्तान्तरेण भ्रमता तत्र भुक्तं राश्यादिकं मध्यमं च कल्पयेत् इत्येतावानेव विशेषः । पुनरपि नियतगतीनां तद्गतिहेतुभूतानामपि नियतगतित्वे सत्यपि प्राकृतिपरिमाणादिवशात् सम्भवन्यायान्तरमाह तिर्यक्त्वे ज्ञेयमोगात्तत्कोटी व्यासदले तयोः ॥ २४ b ।। D. E. F. भागावप्यत्र