पृष्ठम्:सिद्दान्तदर्पणम्.djvu/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्र ज्ञेयभोगमण्डलापेक्षया ज्ञातभोगंमण्डलस्य तिर्यधत्वे तद्वयासार्धस्य इतरव्यासार्धदिगपेक्षया तिर्यक्त्वात् कर्णत्वं प्राप्तस्य या कोटि: तत्तुल्य एव कक्ष्याप्रतिमण्डलयोव्र्यासदलस्थतद्वृत्तस्यापि, भ्रमत: तन्नाभिगमनमार्गग यद्वृत्तं तस्यापि । ज्ञेयभोगातिर्यक्त्वे तत्कोटिरेवोच्चनीचव्यासार्धतया कल्प्या । ये पुनरुभयोर्भुजे तद्योगतुल्य एव ज्ञेयमण्डलात् तद्ग्रहस्य क्षेपश्च । कदाचिद् भुजयोवियोगश्च विक्षेपः स्यात् । एतत्सर्वमुपरिष्टादुदाहरणेन स्पष्टी करिष्यति (? भविष्यति) ।। २४-२५ 2 ।। एवमेकस्यैव ग्रहस्य द्रष्ट्टदेशवशात्सम्भवं नानादर्शनन्यायं कृत्स्नं संक्षेपतः प्रदश्र्य तत्क्षेत्रगतगणितन्यायमपि प्रदर्शयति । तत्र एकेनाधेन अखिल क्षेत्रस्य गणितस्य बीजभूतं भुजाकोटिकर्णक्षेत्रगणितन्यायः प्रदश्र्यते दोःकोटिभुजयोर्योगः कर्णबाहुचतुर्भुजः ॥ ।। २५ b मूलम्- दोभेदो वा युतिः क्षेपस्तमन्ध्यग्रहगोलगः । [ भुजादिलक्षणम् ] दोकोटिभुजयोर्योगः कर्णबाहुचतुर्भुजः ॥ २५ ॥ यस्मिन् क्षेत्रे भुजाकोटिकणेषु त्रिषु, ज्ञाताभ्यां द्वाभ्यां, इतरेतर ज्ञानोपायो जिज्ञास्यते, तत्र त्रीणि समचतुरक्षेत्राणि कल्प्यानि । तत्रैकस्य चत्वारो बाहवो जिज्ञासिताः क्षेत्रबाहुना तुल्याः, अन्यस्य कोटया तुल्याः अन्य[स्य] कर्णतुल्याः । तत्र कर्णतुल्यबाहुक्षेत्रं इतरचतुरश्रद्वययोगसमम् । स्वसंवेद्य चैतत् प्रतिभाजुषाम् । कथम् ? तत्र समचतुरश्रक्षेत्र वीक्ष माणस्य तत्पर्यन्तभागेभ्यश्चतुभ्र्यस्तुल्येभ्यो भुजाख्येभ्यः एकान्तरितकोणयोरन्त रस्य कर्णाख्यस्य दैध्यधिक्यं प्रथमं स्फुरेत् । बाहुष्वपि मिथ:संस्पृष्टैकाग्रयोर्द्धयो र्द्धयोरितरेतरं विपरीतदिक्कत्वे च ज्ञाते कर्णद्वयस्य सामान्येन (? समानेन) भाव्यम्, परिमाणभेदस्य कारणाभावाद् इति च स्फुरेत् । तयोरेकतरकर्ण दिगभिमुखस्य तस्याऽऽयामत्वाङ्गीकारे इतरकर्णाग्रद्वयस्य कटाक्षस्य तत्समायाम विस्तारं कोणप्रतिकोणान्तसमबाहुकं पूर्वचतुरश्रगर्भ चतुरश्रान्तरं प्रतीयेत । तत्र यदि प्रथमस्य बाहवो दिगभिमुखाः, तर्हि द्वितीयस्य विदिगभिमुखाश्चत्वारः । 1. दोर्भेदो वा युतिः क्षेपस्तन्मध्यग्रहगोलगः ।। २५ 2 ।। 2. In D. E. F., this line is transposed to after verse 26 B. gives तुल्य below बाहु as an alt. reading.