पृष्ठम्:सिद्दान्तदर्पणम्.djvu/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुजादिलक्षणम् 23 तत्र प्रथमस्यैकैकं बाहुमभितो ये द्वे त्यश्रे उत्पद्येते, तत्र प्रथमचतुरश्रान्त र्गतमेकम्, तद्बहिर्गतमन्यत् । एवं प्रथमस्य प्रतिबाहु द्वे द्वे त्र्यश्रे स्तः । तान्यष्टौ सर्वाणि मिथस्तुल्यान्येव । तेषां. प्रत्येक फलं च प्रथमचतुरश्र फलचतुरंशतुल्यम्, कर्णाभ्यां चतुर्था विभक्तस्य प्रथमचतुरश्रस्य खण्डैश्चतुभि स्तुल्यत्वात् । तद्बहिर्गतानां च ततस्तयोरन्तर्गतचतुरश्रफलाद् द्विगुणणं बहिर्गतचतुरश्रफलम् चतुरश्रक्षेत्रफलं च तद्बाहुवर्गसमम् तत्तत्समचतुरश्रबाहुवर्गाद् द्विगुणं तत्कर्णभुजक्षेत्रफलम्, फलमूलतुल्यं च बाहुदैघ्र्यम् इत्येतत्सर्व द्रव्यभूतस्य पुरुषस्यावश्यं स्फुरति, तस्य संवेद्यसम्बन्ध्य खिलन्यायावयवानां तत्त्वज्ञानपर्यन्तं जिज्ञासाया प्रविश्रान्तेः । तस्तात एवं समचतुरश्रकर्णज्ञानानन्तरमेव प्रायतचतुरश्रकर्णजिज्ञासा स्यात् । तस्य भुजाकोटयोरतुल्यपरिमाणत्वात् तयोः कतरस्य वर्ग द्विगुणितं तत्फलं स्यादित्यत्र सन्देहच्छेदिविशेषहेत्वभावात् तद्योगार्धस्य द्विगुणीकरणे तदैक्यमेव तत्फलं स्यात् इति स्फुरणस्य ऊहत्वात् तदेव वास्तवं फलम्, ततोऽल्पं वाऽधिकं वा, इति संशयः स्यात् । ततस्तन्निर्णयार्थ पुनरपि निरूपयति । तत्र निरूपणस्य द्वौ मागौ । द्वयो राश्योर्वर्गमूलं निरवयवम् एकादिसंख्याविशेषेषु कयो: कयोः स्याद् इति संख्या [निश्चीयते ।] तदन्वेषण एको मार्गः । अशेषविषयव्यापी क्षेत्रच्छेदकद्वारोऽन्यो मार्गः । प्रथममनेन मार्गेण गन्तव्यम् अन्यस्य [ अर्थात् प्रथमस्य] अल्पविषयत्वाद् , प्रानन्त्यात् क्वचिदप्य विश्रान्तेश्च । तत्र कथं छित्वा योजने द्वित्रा वा सर्वे वा बाहवो जिज्ञासित कर्णतुल्याः स्यु. ? तत्र कोटितुल्यचतुरश्रस्य एकेन बाहुना अल्पस्य बाहुं कुतश्चित्कोणतः प्रभृति सन्धाय संश्लिष्टस्य क्षेत्रस्य यत्र कोणयोः संयोगः स भागो दो:कोटियोगतुल्यः । महति चतुरश्रे संश्लिष्टाद् बहिर्गतः खण्डो दोःकोटयन्तरसम: । इतरौ बाहू कोटितुल्यावेव । अल्पस्य चान्येन संस्पृष्टौ बाहू दो:समावेव । एवं च पर्यन्तभागाः षोढा विभक्ताः स्युः । तत्र कोणयुतेर्महति दो:कोटयन्तरसमे लाञ्छने कृते दो:कोटियोगतुल्यस्य बाहोलञ्छिनाद् बहिर्गतो भागो दो:समः, अन्यः कोटिसमः । महती ऽन्तरेणोनत्वात्, अल्पस्यान्तरेणाधिक्यात् कोटितुल्यत्वं च तयोः । महच्चतुरश्र लाञ्छनमार्गेण छिन्द्यात् । तदा तदायतचतुरश्रदो:समविस्तारं कोटिसमायामं च, इतरस्य खण्डस्याश्रे द्वे कोटिकोटितुल्ये, द्वे चतुरश्रतुल्ये, अन्ये दो:कोटयन्तरतुल्ये । तस्य शिखरे छित्त्वा पृथक्कृतो खण्ड: दो:कोटयन्तर समचतुरश्र क्षेत्रम् । तच्छिष्टं चायतचतुरश्र पूर्वेण तुल्यम् । तयोर्द्धयोः कर्णमार्गेण छिन्नयोः चत्वारि न्यश्राणि स्युः । तत्कर्णाश्चत्वारो जिज्ञासित कर्णतुल्या एव । तानि तथा सन्दध्याद् यथा तत्कर्णा बहिर्गताः स्युः । तथा तन्मध्यत्र्यश्रशून्यं यद्विवरं तद् दो:कोटयन्तरसमचतुरश्रम् । ततस्तत् तृतीयेन