पृष्ठम्:सिद्दान्तदर्पणम्.djvu/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्र प्रथमं प्रतिमण्डलस्फुटे योज्यते । तत्रैतद्वाक्यस्य युक्तेश्चाज्ञः (?) स्यात् । कक्ष्यामध्योच्चनीचस्पृक्सूत्रस्य, कक्ष्यामध्योच्चनीचस्पृशः सूत्रस्य स्फुटीक्रियमाणग्रहस्य च यदन्तरमुच्चनीचसूत्रतिरश्चीनमध्यज्यात्मकं सा भुजा । कक्ष्यामण्डलमध्ये प्रतिमण्डलपरिधिस्थोच्चप्रदेशं नीचप्रदेशं च स्पृशति इति कक्ष्यामध्योच्चनीचस्पृगित्यत्र विग्रहः । वाक्यशेषयोजनमुभयत्र समानम् । तदुच्छुितिः भुजाया उच्छितिः, कोटिः । उच्छ्यश्च भूमध्याद् विप्रकर्ष एव सर्वेषाम् । तयोः कर्णः कक्ष्यामण्डलमध्यस्य ग्रहबिम्बमध्यस्य च विवरम् । ऊध्र्ववदस्यापि प्रथममर्धमुभयत्र योज्यम् ।। २६ ।। मन्दोच्चे शीघ्रोच्चे वा कर्णवृत्तांशदोश्चापधनशोधनाभ्यां तत्तत्कक्ष्या मध्यमण्डलमध्यदृग्गोलगते ग्रहः साध्यते । तत्र किमर्थ कर्णवृत्तांशविशेषणम् ? उच्चमध्यान्तरदोश्चाप व्युदासार्थम् । किं तर्हि तत्र संस्कायंम् ? उच्चस्फुटान्तरदोश्चापम् । तत्कथं ज्ञायत इति ? तदानयनं कर्णवृत्तांशशब्देन सूच्यते । कथम् ? ग्रहमध्यमादुच्चं विशोध्य तद्भुजाया गृहीता अर्धज्या हि मण्डलयोरुभयोः साधारणी, कर्णमण्डलस्य प्रतिमण्डलस्य चोभयसम्पातगतत्वात् । सदैव ग्रहस्य उच्चनीचसूत्रस्य ग्रहसन्निकृष्टप्रदेशात् प्रवृत्तत्वाच्च, भुजाया: उच्चनीचसूत्रस्य च मध्यम स्फुटकेन्द्रयोगोंलसन्धिगतत्वाच्च । एकस्या एव भुजाज्याया मापकभेदादेव मण्डलयोर्द्धयोभेदः स्यात् । प्रतिमण्डलगतत्वेन कल्प्यमाना प्रतिमण्डल खखषड्घनांश (२१६००)तुल्याभिर्मेया कर्णमण्डलगतत्वेन कल्प्यमाना तत् स्वखषड्घनांशतुल्याभि: ज्योतिश्चक्रकलाभिरेव । तत्र केन्द्रस्य मकरादित्वे स्फुटकक्ष्यात्मकस्य कर्णस्य मण्डलस्य मध्यकक्ष्यामण्डलाद् बहिर्गतत्वात् स्फुटकक्ष्याकला मध्यकक्ष्याकलाभ्यो महत्यः स्युः । अतएव प्रतिमण्डल कलाभ्यश्च महत्यः, कक्ष्याप्रतिमण्डलयोस्तुल्यत्वात्, कलानां च सर्वेष्वपि मण्डलेषु स्वपरिधिखखषड्धनांशतुल्यत्वात् । अत उक्तम्- कर्णवृत्तांशदोश्चाप पुतीनोच्चम् इति । कथ कर्णवृत्तांशदोश्चापं ज्ञायते ? त्रैराशिकेन । किं बूमः प्रतिक्षण विक्रियमाणानां कर्णकलानां, सदैव तुल्यपरिमाणानां इतरासां च सम्बन्धस्या ऽनियतत्वात् कथं त्रैराशिकमुपपद्यते ? नैष दोषः । उभयत्रापि ज्या-त्रिज्या चाप-बाणादीनामैककालिकस्य मिथ: सम्बन्धस्य नियमाद प्रभीष्टकालवत्वै रेकमण्डलभवैस्तात्कालिकानामितरमण्डलगतानामानयने त्रैराशिकमुपपद्यते । तत्र तन्मण्डलयोस्तात्कालिकसम्बन्ध एव ज्ञेय । स च व्यासयोः परिध्योः ज्याबाणादीनां वा मण्डलगतानामेकदा एकप्रकार एव । ततो व्यासादिष्वन्य सि० ० ४