पृष्ठम्:सिद्दान्तदर्पणम्.djvu/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

26 तमयोर्वत्तद्वयगतस्तात्कालिके नियमे विदिते सति एकमण्डलगतेन विदितेन अन्यमण्डलगतमपि तत्स्थानीयं ज्ञेयम्। अतएव केन्द्रभुजाकोटिभ्यां महामण्डल गताभ्यां उच्चनीचवृत्तगते भुजाकोटिज्ये आनीयेते । सिद्धान्तदर्पणे न्यायभाग देशभेदेष्वयमेव न्यायः स्यात् । अत एव क्षितिज्याचरादिकमपि तत्तद्देशाक्षावलम्बकादिभिः तत्तद्देशजमानीयते । अपक्रमक्षितिज्या कर्काग्रादीनामेकस्मिन् देशे सदैव द्वयोर्द्धयोमिथ:सम्बन्धस्यैकप्रकारत्वात् । अत्र तु मध्यस्फुटकक्ष्यागतानां द्वयीनां कलानां तत्तत्कालभवो मिथ:सम्बन्ध : क्वचिज्ज्ञेयः । स च स्फुटकक्ष्याव्यासाधे दृश्यते । तत्रापि स्वकलामितं व्यासार्ध सदैव त्रिज्यासंख्यम तद्गता मध्यकक्ष्याकला एव प्रतिक्षणं भिन्नसंख्या: । तज्ज्ञानार्थ कर्ण आनीयते । तत्र केन्द्रबाहुज्या ग्रहभ्रमणवृत्त कलाप्रमिता, तद्गतचापगृहीतत्वात् । सैव भूग्रहान्तरकर्णस्य भुजा । केन्द्र कोटिज्या तु प्रतिमण्डलमध्यस्य भुजायाश्च विप्रकर्षः । कर्णसाधनत्वं तु उच्चनीचरेखागतभूभुजाविवरस्यैव । ततः प्रतिमण्डलभूविवरतुल्यस्योच्चनीच वृत्तव्यासार्धस्य मकररादौ केन्द्रकोटिज्यया संयोगः, कक्र्यादौ तु वियोगश्च कार्यः । सैव कोटिः कर्णसाधनभूता । सैव भुजोच्छूितिरुक्ता । अतस्तद्वर्ग योगमूलं स्फुटकक्ष्याव्यासार्ध मध्यकक्ष्याकलाप्रमितम् । तत् स्फुटकक्ष्याकला प्रमितस्य त्रिज्यातुल्यासंख्यस्य सतस्तस्यैव व्युदासाथ कर्णशब्देन विशेष्यते । भुजाकोटिक्षेत्रकल्पनयाऽवगतत्वात् तत्र कर्णशब्दो वर्तते । वत्त:, व्यासार्धयो: सीमात्वेन कल्प्यमानस्य व्यासत्वं व्यस्यतेऽनेन वृत्तमिति । स्मर्यते च– ‘विस्तारो विग्रहो व्यास:’ इति यादवप्रकाशाद्यः । तस्यार्ध व्यासार्धमित्येकस्यैव मापकभेदनिमित्तः संख्याभेदो वाचकभेदहेतुः । ताभ्यां मध्यमभुजज्यया च स्फुटभुजज्यानयनमेव । यदि तात्कालिककर्ण तुल्याभिग्रेहभ्रमणवृत्तकलाभिः त्रिज्यातुल्यग्रहावधिकज्योतिश्चक्रकला लभ्यते तदा तात्कालिकोच्चमध्यविवरज्यातुल्याभिः ग्रहभ्रमणवृत्तकलाभिः कियत्यो भगोलकला लभ्यन्ते इत्युच्चस्फुटग्रहान्तरदोज्यकला लभ्यन्ते । ततस्तच्चापी करणेन स्फुटकेन्द्रभुजाचापं लभ्यते । तच्चापयुक्तमुच्चं प्रथमपदे स्फुटग्रहः, तदूनं चतुर्थपदे [उच्चम्], द्वितीये तु तदून नीचम्, तृतीये तु तत्सहितं नीचं स्फुटग्रह नन्वेवम् एकस्मिन् केन्द्रपर्यये मध्यमस्फुटसाम्यस्य चतुरज्याऽऽवृत्तिः स्यात् । नैतदस्ति । केन्द्रभगणे एकस्मित् द्विरेव तत्साम्यं स्यात्, उच्चप्राप्तौ नीचप्राप्तौ च । ननु मेषादौ तुलादौ च 'सकृत्कर्णस्य त्रिज्यासाम्यं स्यात् । तथा च मध्यमभुजज्यया स्फुटभुजज्यानयने गुणहारयोः संख्यासाम्यात् व्याख्या-l. The expression सकृत् is repeated in the Ms.