पृष्ठम्:सिद्दान्तदर्पणम्.djvu/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमस्फुटभुजज्ययोरपि साम्यं स्यात् । चापसाम्ये मध्यमस्फुटयोरपि साम्यं स्यादिति चेत्- मैवम् । तदा मध्यमस्फुटभुजयोः पदभेदात् मध्यमस्फुटयोरपि भेदः स्यात् । कथं पदभेदः ? तदानीं च ग्रहस्य प्रतिमण्डलनीचासन्नार्धगतत्वंात् मध्यमकेन्द्रकक्ष्यादिगते तज्ज्याचापे स्याताम्। कर्णमण्डले पुनस्तस्यैव ग्रहस्य तदुच्चासन्नार्धगतत्वात् मकररादिगते ज्याचापे द्वे । अतो नीचमध्यान्तरं मध्यकेन्द्रभुजचापम् । उच्चस्फुटविवरम् प्रमाणपफलयोः साम्यादिच्छाफल साम्येऽपि फलत्वेन सिद्धस्य बाहोश्चापम् । इति महानेव तदानीं मध्यम स्फुटयोभेदः । मध्यमकेन्द्रकक्ष्यादौ यदान्त्यफलात् कोटेरल्पत्वं ततः कोटि : शोध्यते । तदैव च मध्यमस्फुटयोः पदभेदः स्यात्, नान्यदा । एवं प्रतिमण्डल स्फुटपरतया व्याख्यातम् । प्रथ विधान्तरपरतया व्याख्यायते—तदा कक्ष्यामध्योच्चनीचस्पृक् सूत्रकक्ष्यामण्डलम् मध्ये तत्परिधिगतोच्चनीचकेन्द्रेऽपि स्पृष्टम् । तच्चोच्च नीचवृत्तोच्चप्रदेशाऽवधिकम् । यद्वा कक्ष्यामध्ये तत्परिधिस्थोच्चनीचवृत्तोच्च प्रदेशे नीचप्रदेशे च स्पृष्टम् । तस्य सूत्रस्य ग्रहस्य च यो विप्रकर्षः सा भुजा । सा च उच्चनीचवृत्तगता, तत्परिधिस्थत्वाद् ग्रहस्य । कक्ष्याप्रतिमण्डलोच्च नीचवृत्तकर्णमण्डलानां सन्निपात एव हि सदा ग्रहः । सदा तस्या उच्चनीच वृत्तगतबाहुज्यायाः उच्छूितिरेव कोटि: । कर्णः पूर्वोक्त एव । या पुनरुच्च नीचवृत्तगता कोटिः सा च तन्नाभिबाह्वन्तरा[ला]वगाहिव्यासार्धखण्डतुल्या, भुजाशरोनव्यासार्धस्य कोटिसाम्यात् । तस्याः कक्ष्याव्यासार्धस्य च संयोगो वियोगो वेह भुजोच्छुितिः । सैव कर्णसाधनभूता कोटिः । तत्रोच्चनीचवत्तः भुजाकोटिज्येन स्ववृ[क्त कलाप्रमिते ग्राह्य । के तर्हि ? मध्यकक्ष्यकलाप्रमिते, यतस्तत्प्रमितः कणों जिज्ञास्यते ? तत्रैवं त्रैराशिकम्– यदि षष्टिशतत्रयांश परिमिते परिधौ केन्द्रभुजाकोटिज्ये उभे स्तः, तदा ग्रहभ्रमणवृत्तांशैः प्रमाय परिमिते स्वस्वोच्चनीचवृत्ते कियत्याविति । इति परिधिर्गुणकारः, षष्ट्यधिक शतसंख्यो भागहारः । तत्फले भुजाकोटिफलाख्ये । अत्र तु ‘स्वांशैस्तान्य पञ्चमैः’ ( सि० दर्पणम् , ८ ) इति वृत्तानामर्धपञ्चमापवर्तितत्वात् इच्छाप्रमाणयोरेकजातिकत्वाय प्रमाणव्य[ासा]र्धपञ्चमावर्तितम् अशीतिसंख्यं हारतया ग्राह्यम् । परितः परिधयोऽर्धपञ्चमा इति गुणिता वेच्छात्वेन ग्राह्याः इति कर्णविषयावयवयोजना, अत्र भुजाफलचापस्य मध्यमे संस्कार्यत्वात् । कर्णवृत्तांशदोश्चापयुक्तोनोच्चस्फुटो ग्रहः । २७ a ॥ इत्यत्र उच्चशब्देन उच्चनीचवृत्तस्य उच्चभागो विवक्ष्यते । तद्वृत्तमेव च मेषादेर्यतःकुतश्चिदवधेर्वा तत्तज्ज्योतिश्चक्रवृत्तानां. तत्तन्नायात्रान्ता