पृष्ठम्:सिद्दान्तदर्पणम्.djvu/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

28 सिद्धान्तदर्पणे त्या यभागः वधिकस्य ग्राह्यत्वात् । ततोऽत्रोक्तोच्चनीचस्पृक्सूत्रभुक्तज्योतिश्चक्रगतराश्या दिके भुजाफलं संस्कार्यमित्यर्थः । तच्च प्रहर्गणत्रैराशिकानीतमध्यमतुल्यम् । अत एवोक्तम् कक्ष्यामण्डललग्नस्य वृत्तमध्ये प्रहो मध्यः । इति । नन्वत्राक्तम्-भुजाफलं तच्चापं वा न कलाप्रामतम्, यतः ग्रहभ्रमण वृत्तत्वायैव यत्नः कृतः, न कर्णकलाप्रमितत्वाय । ततस्तदर्थ यत्नान्तरं कार्यम् । सत्यम् । तदपि कर्णवृत्तांशदोश्चापत्वोक्तेः सिद्धे मन्दवृत्तस्यैव स्वकर्णवच्च क्षयवृद्धी भवतः, न शीघ्रवृत्तस्य, तस्यापि दोज्यवृिद्धिक्षयवशात् क्षयवृद्धी स्तः इति तद्व्यवच्छेदार्थ एवकार इति । मन्दवृत्तस्य कर्णवत क्षयवृद्धिमत्वमिहोक्तम् । ततस्त्रैराशिकेनैव तात्कालिकमन्दवृत्तपरिमाणं ज्ञेयम् । तत्रैव त्रैराशिकम्-यदि तात्कालिककर्णे त्रिज्यातुल्यम्(? ल्ये) एतावान् परिधिः, तत इयति कर्णे कियानीति । तेन परिधिना प्राग्वदेव दो:कोटिफले कार्ये । यद्यन्त्यफलेन व्यासाधेन प्रमाणेन च दो:कोटिफले प्रानीयेते, तदा अभीष्टान्त्यफलानयनेऽपि इदमेव त्रैराशिकम् । यद्वा पठितेनैव वृत्तेन दो:कोटिफले नीत्वा तयोः पृथक्पृथगेतदैव त्रैराशिकम् । ततस्त्रैराशिकसिद्धाभ्यां फलाभ्थां केवलया त्रिज्यया च इष्टकर्ण प्रानेयः, ततः कणे ज्ञात एव दो:कोटिफले ज्ञेये, तयोज्ञतयोरेव कर्णश्च ज्ञेयः, इत्यन्यो न्याश्रयतां परिहर्तु ' असकृत्कर्मणा कणों विशेष्यते पूर्वेः । तत्र फलयोः पृथक् त्रैराशिकपक्षे फलयोरविशेषकणों गुणकारः, त्रिज्यैव हारः । प्रविशिष्टस्य भुजाफलस्य मध्यकक्ष्याकलाप्रमितत्वात् कर्णकलाप्रमितस्य चापस्यैव मध्यमे संस्कार्यत्वात् । ज्यारूपस्य भुजाफलस्य च उच्चनीचवृत्तकर्णमण्डलयो साधारंणत्वात । कर्णमण्डलप्रमितत्वाय त्रैराशिके त्रिज्या गुणकारः, अविशेषकणों हारः । तत्पूर्वं त्रैराशिकस्य विपरीतकर्मेव । तत एकस्मिन् कर्मणि सर्वस्मिन् कृतेऽपि प्रथममानीतमविकृतवृत्तफलमेव लभ्यत इति, तदेव चापीकार्यमिति, मन्दस्फुटकर्मणि कर्णानयनादिकमुपेक्षणीयमेव । बिम्बमानादिज्ञानार्थमेव तन्मन्दकर्णानयनमुच्यते । तत्र प्रविशेषणस्य कर्मगौरवात् सकृत्कर्मणा प्रानयनमुच्यते कर्णवृत्तांशबाह्वाद्यौममन्देि कक्ष्यैव नीयते ।। २७ b ।। व्याख्या-1. The Ms. reads कर्णगौरवात्