पृष्ठम्:सिद्दान्तदर्पणम्.djvu/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति । मन्दवृत्तस्य कर्णवत् क्षयवृद्धिमत्वात् तत्कर्णानयने य इतरेतराश्रयदोष उक्तः, स पूर्वोक्तप्रकार एव स्यात् । अन्यथापि मध्यमस्फुटकक्ष्ययोः तात्कालिको मिथः परिमाणसम्बन्धो ज्ञेयः । तद्वयासाधे उभे अपि एकेनैव मापकेन प्रमाय उभयोः संख्ययोः ज्ञातयोस्तयोः परिमाणतः सम्बन्धः एवं ज्ञायते--तद्भ्रमणतो यदा यावती संख्या तदा ततस्तावतिथांशैः प्रन्यतल्यैरारब्धमल्पमिति अल्पस्य महता सम्बन्धः । अल्पस्य च यावती संख्या ततस्तावतिथांशैः अन्यतुल्यैरार ब्धमन्यत् कर्णकलाप्रमितमिति । इत्यन्योन्यमङ्गाङ्गिभावः सम्बन्धः । तत्र उभयोर्मापकयोः तुल्यतया भाव्यमित्येव नियमः । तत्र ग्रहवृत्तकलाप्रमिते उभे पूर्वोक्ते । अत्रोक्ते तु कर्णकलाप्रमिते । तत्र स्फुटकक्ष्याव्यासार्धस्य कर्णकला प्रमितस्य सर्वदाऽपि त्रिज्यातुल्यत्वात् तदिह ज्ञातम् । कर्णकलाप्रमिते भुजाकोटिफले च ज्ञाते । ततस्तैस्त्रिभिरज्ञातं कर्णकलाप्रमितं मध्यकक्ष्या व्यासार्धमिह नीयते । तदुक्तम् कर्णवृत्तांशावाह्वाडौमान्दे कक्ष्यैव नीयते ।। २७ b ।। 29 स्ववृत्तकलाप्रमितस्य कर्णस्य सदैव त्रिज्यातुल्यत्वात् तेन मध्यकक्ष्या व्यासाधनयने कर्णानयनविपरीतकर्म कार्यम् । तच्च माधवेनोक्तम् विस्तृतिदलदो:फलकृतिवियुतिपदं कोटिफलविहीनयुतम् केन्द्रे मृगककिंगते स खलु विपर्ययकृतो भवेत् कर्ण: । तेन हृता त्रिज्याकृतिरयत्नविहिता विशेषकर्णः स्यात् । अयाख्या-1. The Ms. reads इच्छाया इति । अत्र ‘तेन हृता त्रिज्याकृतिः’ इत्येतत् त्रैराशिकमेव । स्फुटकक्ष्या व्यासार्धस्य ग्रहभ्रमणवृत्तकलाप्रमितस्यैव संख्या गणितेन ज्ञेया । कर्णवृत्त कलाप्रमितस्य संख्या ज्ञातैव, सदैव त्रिज्यातुल्यः स्यात् (? तुल्यत्वात्) तस्याः । तया त्रैराशिकेन प्रतिक्षणं भिद्यमाना ग्रहवृत्तकलासंख्या कर्णाख्या ते (?) त्रैराशिकेनैव ज्ञेया । प्रमाणफलयोर्विदितयोर्वा इच्छया' त्रैराशिक प्रवर्तते, लिङ्गलिङ्गित्वादुभयोः । तयोः सम्बन्धश्च मध्यकक्ष्याव्यासाध एव ज्ञेयः । तद्गतग्रहवृत्तकला ज्ञाता, त्रिज्यातुल्येति । तद्गतकर्णवृत्तकला सिद्धयर्थमिह कर्णविपरीतकर्म उक्तम् - कर्णवृत्तांशबाह्वाणैः कक्ष्यैव इह नीयते । इति । एवमुभयविधाना[म्] कलान[ाम्] तात्कालिके सम्बन्धे मध्यकक्ष्या