पृष्ठम्:सिद्दान्तदर्पणम्.djvu/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यासाधे ज्ञाते। अन्यत्राप्येकविधकलानां संख्यया ज्ञातज्ञाततया (?) अन्याधीनानां कलानामपि तद्गता संख्या ज्ञेया । अत्र त्रैराशिवाचोयुक्तिश्चैवम्- इदानीं मध्यकक्ष्याव्या साधे ज्ञाते कर्णकलासंख्यया त्रिज्या [ज्ञा]ता । कणविपरीत कर्मणाऽनीतया तद्गतैव ग्रहवृत्तकलासंख्या त्रिज्यातुल्यैव लभ्यते, तदा स्फुटकक्ष्याव्यासार्धगतया त्रिज्यातुल्यया स्वकलासंख्यया तद्गता ग्रहवृत्तकला संख्या कियतीति । तत् किमिति अत्र न मीयते । ‘मान्दे कक्ष्यैव नीयते' इति हयुक्तम्, स्फुटकक्ष्याकलाप्रमिताभ्यां कक्ष्याद्वयव्यासाधभ्यामपि तत् त्रैराशिकस्य कर्तु शक्यत्वात् । तत्र त्रिज्योक्तं कर्म विपरीतकर्मानीतेन कार्यम् , कणॉक्तं कर्म त्रिज्यया च । तदपि सर्वत्र विष्कम्भदलं श्रुतौ वा व्यासार्धके स्याद् विपरीतकर्ण इति अस्मद्गुरुणा उक्तम् । व्यासे दलीकृते, व्यासार्धस्थाने इति यावत् । तस्य सुखबोधत्वाच्च । ‘एव'-कारेण पूर्वेरुक्तकणनियनमेव निरस्यते कृत्कर्मणाप्यविशेषस्या सिद्धेश्च नीयतान् इति वा पाठ : । मध्यकक्ष्याच्यासाधेन स्फुटकक्ष्याव्यासाधनयनम् । एवं मान्दकर्मणि इतरेतराश्रयदोषः, न पुनर्वेपरीत्ये। अत्र कर्णस्त्रिज्यातुल्यः कल्प्यः, फलाभ्यां सावण्यर्थम् इत्येव विशेषः । पुनस्त्रैराशिके पुनर्नानाभूत: कर्ण आनीयतां वा, मा वा इत्यभिप्रायः । प्रसः शीघ्रकर्णे तत्परिधेः कर्णानुसारि वृद्धिहासाभावात् नेतरेतराश्रयः । तत्र बाहुफलं च त्रिज्यागुणितं कर्णहृतं चापितं च संस्कार्यम् । तत्र अर्कोन्द्वोर्मान्द भुजाफलचापसंस्कृतमेव मध्यमं स्फुटं स्यात्, भ्रमत्प्रतिमण्डलमध्यमार्गभूतस्य मन्दपरिधेनभ्या भगोलघनमध्यगतत्वात्, शीघ्रोच्चपरिधेरभावात् । ज्ञातभोगग्रहं वृत्तम् ’ (सि० दर्पणम्, २२) इत्याद्युक्ता युक्ती ग्रहस्फुटलम्बनादिषु तत्तदपेक्षिताः क्रमेण योजयिष्यामः । तत्र रवेर्विक्षेपाभावात् शीघ्रोच्चतत्परिध्योरभावाच्च मन्दोच्चतत्परिध्योः सद्भावाच्च तत्स्फुटयुक्तयः प्रथमं योज्यन्ते । तद्भ्रमणवृत्तं तत्र प्रतिमण्डलम् । ततस्तदत्र ज्ञातभोगग्रहं विवक्षितम्, यतः सदैव तन्नाभिगतदृष्टेस्तद्गतिः समैव । सैव मध्यगतिश्च, तस्य[] भगोलेन सहदेश-नाभिकत्वात्, भ गोलगतराश्यादिस्थितिवशात्, कर्माधारभूत कालविशेषाणाम् मासतिथिनक्षत्रादीनां च भगोलगत्यायत्तत्वात् । सैव ज्ञेया । तस्य[] मध्यगतिसाधनत्वादेव मध्यमानयनम् । तस्य[[:] “तिथ्याद्या