पृष्ठम्:सिद्दान्तदर्पणम्.djvu/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ क्रान्तिः ] क्रान्तिकोटिद्यवृत्तऽपि स्वकला ह्मसुभिः समाः । अन्त्यद्युज्येष्टभक्रान्त्योः क्षेपकोटिघ्नयोर्युतिः ॥ २८ ॥ वियुतिर्वा ग्रहक्रान्तिस्त्रिज्याप्ता' कालदोगुणः । अन्त्यक्रान्तीष्टतत्कोट्योः स्वद्युज्याप्तापि पूर्ववत् ॥ २९ ॥ [ व्यतीपातः-लाटवैधृतौ ] "अक्रेन्द्वोरयनात् साम्ये लाटो मध्याच्च वैधृतः । [ द्विस्पृग्वृत्तम् ] द्विस्पृग्वृत्तऽर्कभासेन्दोरर्ध भात्यतिरोहितम् ॥ ३० ॥ नयनेनान्तरितमेव रवीन्द्वादिमध्यमानयनम् । तस्या भगोलघनमध्यगतदृष्टेः समन्ततो या गतिः सैव स्फुटगतिः । ग्रहभगोलघनमध्यप्रोतसूत्रगतिरेव हि तद्गतिः । तस्य[ा:] सर्वदा वेग[[]साम्यम् । तद्वशादेव सौरमासादीनां भेदः । तत्सूत्रस्य मान्देय[? मान्द्ये ] मासानां महत्वं शैध्येऽल्पकालत्वं च । एवं नक्षत्रादे रवीन्दुसूत्रगतिवैषम्याद् वृद्धिहासौ । तस्माद् भगोलमध्यस्य तत्र ज्ञेयभोगत्वम्, तन्मध्यकर्णवृत्तगतेः ज्ञेयत्वात् । कर्णवृत्तमेव ज्ञेयभोगग्रहम् । तेन सदेशनाभिक प्रतिमण्डलतुल्यं कक्ष्यावृत्तं कल्प्यते, मध्यस्फुटभुजान्तर प्रदेशप्रदर्शनार्थम् । तेन विनापि स्फुटयुक्तिः प्रदश्य । अतो लाघवायैव तत्कल्पनम् मूलम्- 1. E. F. omit पि 2. A. प्तं ; D. प्त ; F. and alternative reading in D, प्ताँ 3. : F. प्रार्केन्द्वो (corrupt). व्याख्या -1. The commentary in the Ms. breaks of here.