पृष्ठम्:सिद्दान्तदर्पणम्.djvu/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

32 मूलम् - सिद्धान्तदर्प न्यायभागः [ ग्रहणादिः ] स्वदृग्गोलगतिक्षेपबिम्बैज्ञेयं ग्रहादिकम् । तन्मध्यभुक्तिसाम्ये स्यादासत्तिर्भिन्नमार्गयोः ॥ ३१ ॥ 1. [ ग्रन्थसमाप्तिः ] विंशत्यानुष्टुभां स्पष्टं कृतं शास्त्रमिहाखिलम् । दशभिन्ययमार्गश्च संक्षेपादेव दर्शितः ॥ ३२ ॥ ।। इति गाग्र्य-केरलसङ्ग्राम-नीलकण्ठविरचितम सिद्धान्तदर्पणं समाप्तम् । B. has, after this, a verse indicating the name of the scribe and another on the subtraction of angles in arcs : गाग्र्यकेरलसद्ग्राम-नीलकण्ठेन निर्मितम् । सिद्धान्तदर्पणं शास्त्रमलिखत् शङ्कराभिधः ।। इष्टज्ययोश्च तत्कोटयोभेदवगैक्यतः पृथक् । द्वि(?त्रि) ज्याप्ताब्ध्यंशवर्गाढघान्मूलं चापान्तरं भवेत् ।। श्रीकृष्णः प्रीयताम् ।