पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६

आधारे लिङ्गनाभौ हृदयसरसिजे तालुमूले ललाटे ।
द्वे पत्र षोडशारे द्विदशदशदले द्वादशार्धे चतुष्के
नासान्ते बालमध्ये डफकठसहिते कण्ठदेशे स्वराणाम् ।
हं क्षं तत्वार्थयुक्तं सकलदलगतं वर्णरूपं नमामि ।। १२
प्राणोऽपानः समानश्च उदानो व्यान एव च ।
पञ्चकर्मेन्दिययुक्ताः क्रियाशक्तिसमुद्यताः ।। १३ ।।
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः।
पञ्चज्ञानेन्द्रियैयुक्ताः बुद्धिशक्तिसमन्विताः ॥ १४॥
पावकश्शक्तिमध्यस्थो नाभिचक्रे रविः स्थितः ।
बन्धमुद्रा कृतास्सर्वे नासाग्रे तु सुलोचनम् ॥ १५॥
अकारो वन्हिदेशे च उकारो हृदि संस्थितः
मकारश्चः भ्रुवोर्मध्ये वचनाञ्च निबोधयेत् ।। १६ ।।
ब्रह्मग्रन्थिरधष्कारे विष्णुग्रन्थि र्हृदि स्थितः ।
रुद्रग्रन्थिर्भ्रुवोर्मध्ये विमुच्यन्ते त्रयस्तथा ।। १७॥ ।
अकारो ब्रह्म इत्याहुः उकारो विष्णुरुच्यते ।
मकारे च शिवं साक्षाच्छान्तेश्शान्ततरं परम् ॥ १८ ॥
कण्ठसंकोचनं कृत्वा द्वे नाड्यौ स्तम्भयेद् दृढम् ।
रसनापीड्यमानास्तु षोडशश्चोर्ध्व​गामिनी ॥ १९॥
त्रिकूटं त्रिहठाचैव गोल्हाटं शिखरं तथा।
त्रिशिखं वत्रमोङ्कार मूर्ध्वनाखं भ्रुवोर्मुखम् ॥ २० ॥
आकुञ्चयेद्रविञ्चैव​ पश्चान्नडी प्रवर्तते ।
भेदे त्रिहठसंघट्टमुभयोश्शशिदर्शनम् ॥ २१ ॥
प्रणवा गुदनाला च नलिनी सर्पिणी तथा ।
वङ्कनालि क्षया शौरी कुण्डली कुण्डलाः स्मृताः ॥ २२॥