पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६

चन्द्रामृतमयीं धारां प्रत्याहरति भास्करः ।
तं प्रत्याहरणं यं तु प्रत्याहारः स उच्यते ॥ ११९ ॥
एकांस्त्रि युज्यते त्वाभ्यां आगता सोममण्डलात् ।
तृतीयो यः पुनस्ताभ्यां स भवेच्चाजरामरः ॥ १२० ॥
नाभिमध्ये वसत्येषा भास्करो दहनात्मकः ।
अमृतात्मा स्थितो नित्यं तालुमध्ये तु चन्द्रमाः ॥ । १२१ ।।
वर्षत्यधोमुखं चन्द्रो ग्रसमुर्ध्व​मुखो रविः ।
विज्ञातस्य करणं तत्र येन पीयूषमाप्यते ॥ १२२ ॥
ऊर्ध्वं नाभिरधस्तालु ऊर्ध्वं भानुरधश्शशी ।
करणं विपरीताख्यं गुरुवाक्येन लभ्यते ॥ १२३ ॥
त्रिधा बद्धो वृषो यत्र रोरवीति महान् पुनः
अनाहतं च तच्चक्रं योगिनो ह्यतिदुःखभित् ।। १२४ ॥
अनाहतमतिक्रम्य नाकृष्य मणिपूरकात् ।
प्राप्ते प्राणि तथा पद्मं योगिनाममृतायते ॥ १२५ ।।
ऊर्ध्वं षोडशपद्मपत्रगलितं प्राणादवाप्तं हठात् ।
ऊर्ध्वास्ये रसनां नियम्य विवरे शक्तो परां चिन्तयन् ॥ १२६
उत्कल्लोलकलाजलं सुविमलं जिह्वाकुलं यः पिबेत् ।
निर्दोषस्य मृणालकोमलवपुः योगी चिरं जीवति ॥१२७॥
काकचञ्चुपुटास्येन शीतलं सलिलं पिबेत् ।
मासार्धेन संमोहो सर्वरोगविवर्जितः ॥ १२८ ॥
विशुद्धं परमं चक्रं भूत्वा सोमकलात्मकम् ।
उन्मार्गेनात्र जलं याति वञ्चयित्वा मुखे रवौ ॥ १२९ ॥
प्राणापानविधानेन योगी भवति निर्जरः।
रसनातालुमूलेन य प्राणं सततं पिबेत् ॥ १३० ॥