पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लीलता११ पूर्णता उन्मनी लोलता मूर्च्छता इति पञ्चगुणं
शून्यम् ।। १८ ।।
सत्यत्वं सहजत्वं समरसत्वं सावधानत्वं सर्वगत्वमिति
पञ्चगुणं निरञ्जनम् ।। १९ ।।
अक्षय्यत्वमभेद्यत्वमछेद्यत्वमदाह्यत्वमविनाशित्वमितिपञ्चगुणो
परमात्मेति अनाद्यपिण्डस्य पञ्चतत्वपञ्चविंशतिगुणाः।। २०॥
उक्तञ्च :-
अपरम्परं परमपदं शून्यं निरञ्जनं परमात्मनः
पञ्चभिरेतैः सगुणैरनाद्यपिण्डः समुत्पन्नः ।। २१ ॥
अनाद्यात्परमानन्दः परमानन्दात्प्रबोधः प्रबोधाचिदुदयः
चिदुदयात्प्रकाशः प्रकाशात्सोऽहम्भावः ।। २२।।
स्पन्दः हर्षः उत्साहः निस्पन्दः नित्यसुखत्वमिति
पञ्चगुणः परमानन्दः ।। २३ ।।
उदयः उल्लासः अवभासः विकासः प्रभा इति पञ्चगुणः
प्रबोधः ।। २४ ।।
सद्भावः विचारः कर्तृत्वं ज्ञातृत्वं स्वतन्त्रत्वमिति पञ्चगुणः
चिदुदयः ॥२५॥
निर्विकारत्वं निष्कलत्वं निर्विकल्पत्वं समता विश्रान्तिः
इति पञ्चगुणः प्रकाशः ।। २६ ॥
अहन्ता ऽखण्डैश्वर्य​ स्वात्मता विश्वानुभवसामर्थ्यं ।
सर्वज्ञत्वमिति पञ्चगुणः सोऽहम्भावः ॥ २७ ॥
इति आद्यपिण्डस्य पञ्चतत्वं पञ्चविंशतिगुणाः ।। २८।।
उक्तञ्च :-
परमानन्दः प्रबोधः चिदुदयः चित्प्रकाशः ।
सोहम्भाव इत्यन्तः आद्यपिण्डो महातत्व​गुणयुक्तः समुत्थितः ॥ २९॥


११-लीनता ( ह.) नीलता, (का. ). १२-महातत्वयुक्तः (ह. ).