पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रागो द्वेषो भयं लज्ज़ा मोह इति पञ्चगुण आकाशः
इति पञ्चविंशतिगुणानां भूतानां प्रकृतिपिण्डः ।। ४२ ।।
मनोबुद्धिरहङ्कारश्चित्तं चैतन्यमित्यन्तःकरणपञ्चकम् ॥ ४३ ॥
संकल्पः विकल्पः मूर्छा जडता मननमिति पश्चगुणं मनः ॥ । ४४ ॥ ।
विवेको वैराग्यं शान्तिः सन्तोषः क्षमा इति पञ्चगुणा बुद्धिः ॥४५॥
अभिमानं मदीयं मम सुखं मम दुःखं ममेदमितिपञ्चगुणोऽहंकारः ।।४६॥
मतिर्धृतिः स्मृतिस्त्यागः स्वीकारः इति पञ्चगुणं चित्तम् ।। ४७ ।।
विमर्शः तच्छीलनं धैर्यं चिन्तनं निस्पृहत्वमिति पश्चगुणं
चैतन्यम्—एवं अन्तःकरणगुणाः ॥ । ४८ ॥
सन्त्वं रजस्तमः कालो जीव इति कुलपञ्चकम् ।। ४९ ।।
दया धर्मः कृपा भक्तिः श्रद्धेति पञ्चगुणं सत्त्वम् ॥ ५० ॥
दानं भोगः शृङ्गारः वस्तुग्रहणं स्वार्थमिति पञ्चगुणं रजः ॥ ५१ ॥
विवादः शोकः कलहः बंधः वञ्चनमिति पञ्चगुणं तमः ॥ ५२॥
कलना कल्पना भ्रान्तिः प्रमादोऽनर्थ इति पञ्चगुणः कालः ॥५३॥
जाग्रत् स्वप्नः सुषुप्तिस्तुर्यं तूर्यातीतमिति पञ्चावस्थागुणोजीवः ।।५४ ।।
इच्छा क्रिया माया प्रकृति र्वाक् इति व्यक्तिशक्तिपञ्चकम् ॥ ५५ ॥
उन्मादो वासना वाञ्छा चिन्ता चेष्टेति पञ्चगुणा इच्छा ।। ५६॥
स्मरणमुद्योगः कार्यं निश्चयः स्वकुलाचार इति पञ्चगुणा क्रिया ।५७।
मदो मात्सर्यं दम्भः कृत्रिमत्वं असत्यमिति पञ्चगुणा माया ॥ ५८ ॥
आशा तृष्णा स्पृहाकांक्षा मिथ्या इति पञ्चगुणा प्रकृतिः ।।५९॥


१५-शीलनम्-(ह. तं. ). १६-क्रिया ( ह.). १७–स्वार्थसंग्रहणमिति (ह.), स्वार्थादाने (का. ).