पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६

मेरुपर्वतो मेरुख​ण्डे वसति कैलासो ब्रह्मकपाटे वसति
हिमालयः पृष्ठे मलयो वामकन्धरे मन्दरो दक्षिणकन्धरे
विन्ध्यो दक्षिणकर्णे मैनाकः वामकर्णे श्री-पर्वतो ललाटे
एवमष्ट कुलपर्वताः अन्ये उपपर्वताः सर्वाङ्गुलिषु वसन्ति ॥ १० ॥
पीन​सा गंगा यमुना चन्द्रभागा सरस्वती । पिपासा शतरुद्रा
च श्रीरात्रिश्चैव नर्मदा एवं नव नद्यो नवनाडीसु वसन्ति ॥ ११ ॥
अन्या उपनद्यः कुल्योपकुल्याः द्विसप्तति-सहस्र-नाडीसु वसन्ति ।। १२ ।।
सप्तविंशति नक्षत्राणि द्वादश राशयः नव ग्रहाः पञ्च-
दश तिथयः एते अन्तर्वलये द्विसप्तति-सहस्र-स्वहस्त-कोष्ठेषु
वसन्ति । अनेकतारामण्डलं ऊर्मिषु वसन्ति । त्रयस्त्रिंशत्-कोटि-
देवता बाहुरोमकूपेषु वसन्ति । अनेकपीठोपपीठकाः रोम-
कूपेषु वसन्ति । देवदानव-यक्ष-राक्षस-पिशाच-भूतप्रेताः
अस्थिसन्धिषु वसन्ति । कुलनागा वक्षसि वसन्ति ।
अन्ये सनकादिमुनिसंधाः कक्षरोमकूपेषु वसन्ति ।
अन्ये पर्वता उदर-लोमसु वसन्ति । गन्धर्व-किन्नर​-
किंपुरुषा अप्सरसो गणा उदरे वसन्ति । अन्याः खेचरी-लीला-
मातरः शक्तयः उग्रदेवता वायुवेगे वसन्ति । अनेकमेघाः
अश्रुपाते वसन्ति । अनेकतीर्थानि मर्मस्थाने वसन्ति । अनन्तसिद्धाः
मतिप्रकाशे वसन्ति । चन्द्रसूर्यौ नेत्रद्वये वसतः । अनेक-वृक्षलता-
गुल्मतृणानेि जंघारोमककूपस्थाने वसन्ति । अनेककृमिकीटपतङ्गाः
पुरीषे वसन्ति ॥ १३ ॥
यत्सुखं तत्स्वर्गं यद्दुःखं तन्नरकं यत्कर्म तद्बंधनं यन्निर्वि-
कल्पं तन्मुक्तिः स्वस्वरूपदशायां निद्रादौ स्वात्मजागरः
शान्तिर्भवति । एवं सर्वदेहेषु विश्वस्व​रूपः परमेश्वरः


६-दण्डे (ह. का.). ७–पीतसा (ते.). ८-वितस्ता (का.).