पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोपदेशः

अथ पिण्डपदयोः समरसकरणं कथ्यते -
महासिद्धयोगिभिः पूर्वोक्तक्रमेण परपिण्डादिस्व​पिण्डान्तं
ज्ञात्वा परमपदे समरसं कुर्यात् ।। १ ॥ ।
परमपदमिति स्वसंवेद्यं अत्यन्ताभासाभासकमयं ॥२॥

उक्तं तत्त्वसंहितायाम् :-

यत्र बुद्धिर्मनो नास्ति तत्वविन्नापरा कला।
ऊहापोहौ न कर्तव्यौ वाचा तत्र करोति किम् ॥
वाग्मिना गुरुणा सम्यक् कथं तत्पदमीयते ।
तस्मादुक्तं शिवेनैव स्वसंवेद्यं परंपदम् ॥ ३॥
अतएव नानाविध-विचारचातुर्य-वच​सा विस्मयां गत्वा
गुरुचरणरतत्वात् निर्णीतत्वात् स्वसंवेद्यमेव परमं पदम्
प्रसिद्धमिति सिद्धान्तः ॥४॥
गुरुत्र सम्यक् सन्मार्गदर्शनशीलो भवति ।
सन्मार्गो योगमार्गस्तदितरः पाषंडमार्गः ।।

तदुक्तमादिनाथेन :-

योगमार्गेषु तंत्रेषु दीक्षितास्तांश्च दूषकाः ।
ते हि पाषंडिनः प्रोक्ताः तथा तै: सहवासिनः ॥५॥
यस्मिन् दर्शिते सति तत्क्षणात् स्वसंवेद्य​साक्षात्कारः
समुत्पद्यते । ततो गुरुरेवात्र कारणमुच्यते ॥६॥
तस्माद्गुरुकटाक्षपातात् स्वसंवेद्यतया च महासिद्ध-
योगिभिः स्वकीयं पिण्डं निरुत्थानानुभवेन समरसं क्रियते
इति सिद्धान्तः ॥७॥


१ - चर्चा (ह.), २-सारांग (तं.). ३ -कृपातत्वमात्रेण ( हं. ), गुरुचरणत्वात् निरुपाधिकत्वात् निर्निकेतत्वात् (तं.). ४-आचार्यस्वामिना (तं.).