पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
९१
बालमनोरमा ।


२३१६ । सन्वल्लघुनि चङ्परेऽनग्लोपे । (७-४-९३)

'चङ्परे' इति बहुव्रीहिः । अन्यपदार्थो णिः । स च 'अङ्गस्य' इति च द्वयमप्यावर्तते । अङ्गसंज्ञानिमित्तं यच्चङ्परं णिरिति यावत् तत्परं यल्लघु तत्परो योऽङ्गस्याभ्यासस्तस्य सनीव कार्यं स्याण्णावग्लोपेऽसति । अथवा 'अङ्गस्य' इति नावर्तते । चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरस्तस्येत्यादि प्राग्वत् ।

२३१७ । सन्यतः । (७-४-७९)


तथाच कम् इत्यस्य द्वित्वे हलादिशेषे ककम् अ त इति स्थितम् । सन्वल्लघुनीति ॥ अनग्लोप इति च्छेदः । बहुव्रीहिरिति ॥ चङ् परो यस्मादिति विग्रह इति भावः । कर्मधारयमाश्रित्य चङि परे इति नार्थः । परग्रहणवैयर्थ्यात् । ननु बहुव्रीह्याश्रयणेऽपि अत्र लोपोऽभ्यासस्येत्यत. अभ्यासस्येत्यनुवृत्तौ चङ्परके लघुनि परे अभ्यासः सन्वदित्यर्थो लभ्यते । तथा सति अण्यन्तेभ्यः श्रिद्रुस्रुभ्यश्चडि द्वित्वे अशिश्रियत् । अदुद्रवत् । असुस्रवदित्यत्रापि सन्वत्त्व स्यात् । ततश्च दीर्घो लघोरिति सन्वद्भावविषये अभ्यासस्य वक्ष्यमाणो दीर्घः स्यादित्यत आह । अन्यपदार्थो णिरिति ॥ तथाच चङ्परे णौ इति लभ्यते । आशिश्रियदित्यादौ च णेरभावात् न सन्वत्त्वमिति भावः । सचांगस्येति चेति ॥ बहुव्रीहिगम्यो णिः अङ्गस्येत्यनुवृत्तं चेत्यर्थः । तत्र णावित्यावृत्तौ एक लघुनीत्यत्रान्वेति । तथाच चङ्परे णौ यल्लघु तस्मिन्परत इति लभ्यते । द्वितीयन्तु अनग्लोपे इत्यत्रान्वेति । तथाच, णौ परतः यः अग्लोपः तस्याभावे सतीति लभ्यते । अङ्गस्येत्यावृत्तौ एकश्चङ्परे इत्यत्रान्वेति । निमित्तनिमित्तिभावे षष्ठी । तथाच अङ्गसंज्ञानिमित्तभूते चङ्परके वर्णे परे इति लभ्यते । चङ्परकश्च वर्णः अर्थात् णेरिकार एव । न तु श्रिद्रुस्रुवामन्त्यवर्णः । तस्य अप्रत्ययत्वेन अङ्गसंज्ञाप्रापकत्वाभावात् । एतदर्थमेव अङ्गस्येत्यस्य निमित्तषष्ठ्यन्ततामाश्रित्य चङ्पर इत्यनेनान्वयोऽभ्युपगतः । चङ्पर इत्येतावतैव तु णाविति लभ्यते । श्रिद्रुस्रुष्वव्यभिचारात् । द्वितीय त्वङ्गस्येत्येतत् अभ्यासस्येत्यनुवृत्तेन अन्वेति । सन्वदिति सप्तम्यन्ताद्वति । तदाह । अंगसंज्ञानिमित्तमित्यादिना । अथवेति ॥ अस्मिन्व्याख्याने चङ्परे इत्येतत् अङ्गस्येत्यत्रान्वेति । न तु लघुनि । अङ्गस्य च प्रत्ययनिमित्तत्वादेव णेरन्यपदार्थस्य लाभ । लघुनीति तु अभ्यासस्येत्यत्रैवान्वेति । तदाह । चङ्परे णौयदंगमित्यादिना । प्राग्वदिति ॥ सनीवकार्यं स्याण्णावग्लोपे असतीत्यर्थः । अत्र प्रथमपक्ष एव भाष्यसम्मतः । अजजागरदित्यत्र चङ्परे णौ यल्लघु तदभ्यासव्यवहितमिति न सन्वत्त्वमिति भाष्योक्तेः । एवञ्च । प्रथमपक्षे उदेर्ण्यन्ताच्चडि द्वित्वे उदिदि अ त इत्यत्र अभ्यासोत्तरखण्डे चङ्परे णौ लघोरभावेनाभ्यासस्य तथाविधलघुपरकत्वविरहात् सन्वत्त्वाभावान्नाभ्यासदीर्घः । द्वितीयपक्षे तु चङ्परे णौ यदङ्गं उद् इत्येतत् तदीयोऽभ्यासश्चडमादाय लुप्तं णिमादाय वा लघुपर इति सन्वत्त्वसत्त्वादभ्यासदीर्घ इति भेदः । एवञ्च प्रकृते ककम् अ त इत्यत्र व्याख्याद्वयेऽपि सन्वत्त्वं स्थितम् । सन्यत इति ॥ सनि अतः इति