चकास्त्यर्थापयत्यूर्णोत्यादौ नाङ्गं द्विरुच्यते ।
किं त्वस्यावयवः कश्चित्तस्मादेकाक्ष्विदं द्वयम् ॥
वस्तुतोऽङ्गस्यावयवो योऽभ्यास इति वर्णनात् ।
ऊर्णौ दीर्घोऽर्थापयतौ द्वयं स्यादिति मन्महे ॥
चकास्तौ तूभयमिदं न स्यात्स्याच्च व्यवस्थया ।
णेर्विशेष्यं सन्निहितं लघुनीत्यङ्गमेव वा ॥
परतः कृत्स्नमेव प्रकृतिरूपम् । न तु तदेकदेश. । ततश्च कृत्स्नमङ्ग यत्र द्विरुच्यते न तु तदेकदेशमात्र तत्रैव दीर्घो लघोरिति दीर्घ, सन्वल्लघुनीति सन्वद्भावश्च, भवति । एवञ्च अङ्गस्य एकाच्कत्वे सत्येव तयोः प्रवृतिः । तत्र कृत्स्नस्याङ्गस्य द्विरुक्तेः । अनेकाच्केषु तु अङ्गेषु न तयोः प्रवृतिः । तत्र एकस्यैव एकाचः अङ्गैकदेशस्य द्विरुक्तेरिति माधवो मन्यत इति प्रथमश्लोकस्यार्थ. । नानेकाक्ष्वित्युक्तं विशदयति । चकास्तीति श्लोकेन । चकासृ दीप्तौ । अर्थमाचष्टे इत्यर्थे णिचि अर्थवेदयोरिति प्रकृतेरापुगागमे अर्थापिधातुः । ऊर्णञ् आच्छादने । एते त्रयः अनेकाच्का धातवः । आदिना जागृनिद्राक्षय इत्यादिसङ्ग्रह । एभ्यो ण्यन्तेभ्यश्चडि अङ्ग कृत्स्न न द्विरुच्यते । किंतु अङ्गस्य कश्चिदेकाजवयव एव द्विरुच्यते । तस्मात् अनेकाच्केषु कृत्स्नस्याङ्गस्य द्विरुक्त्यभावात् एकाच्केष्वेवाङ्गेषु दीर्घो लघोरिति दीर्घः, सन्वल्लघुनीति सन्वद्भावश्चेत्येतद्द्वय भवति । नत्वनेकाच्काङ्गेष्वित्यर्थः । नन्वेव सति दिदारिद्रासति इत्यादौ हलादि शेष इत्याद्यभ्यासकार्यमनेकाच्कादङ्गान्नस्यात् । कृत्स्नाङ्गस्य द्विरुक्त्यभावात् । किञ्च अजजागरदित्यत्र सन्वत्त्वमाशङ्क्य णिपरकलघोर्गकाराकारस्य जा इत्यनेन व्यवहितत्वादभ्यासस्य न सन्वत्त्वमिति समाहित भाष्ये । तदेतत् अनेकाच्काङ्गेषु सन्वत्त्वस्याप्रवृत्तौ विरुध्द्येत । कृत्स्नस्याङ्गस्य द्विरुक्त्यभावादेव तत्र सन्वत्त्वस्याप्राप्तौ तच्छङ्काया एवानुन्मेषादित्यस्वारस्याद्यथोद्देशपक्षमालब्याह । वस्तुत इति ॥ अङ्गस्येत्यवयवषष्ठी । अङ्गावयवस्याभ्यासस्येति लभ्यते । ततश्च ऊर्णुञि ण्यन्ते चडि नु इत्येकदेशस्य द्वित्वेऽपि और्णूनुवदित्यत्र दीर्घो लघोरित्यभ्यासलघुर्दीर्घीभवति । सन्वत्त्वन्तु प्रयोजनाभावादुपेक्षितम् । अभ्यासे अकाराभावेन सन्यत इत्यस्यासम्भवात् । अर्थमाचष्टे इत्यर्थे णिचि प्रकृतेरापुकि अर्थापिधातोश्चडि णिलोपे उपधाह्रस्वे थप् इत्यस्य द्वित्वेऽपि आर्तथपदित्यत्र सन्वद्भावात् सन्यत इत्यभ्यासस्य इत्त्व अभ्यासदीर्घश्चेति द्वय भवतीति जानमि इति तृतीयश्लोकार्थः । अङ्गस्यावयव इति पक्षेऽपि चकास्तौ विशेषमाह । चकास्तौत्विति ॥ चतुर्थश्लोकोऽयम् । अवस्था वस्तुस्थितिः । व्यवस्थया पक्षद्वयेनेति यावत् । चड्परे इत्यनेन अन्यपदार्थतया लब्धस्य णावित्यस्य सन्निहित लघुनीत्येतत् विशेष्यम् । तथाच चङ्परे णौ यल्लघु इति प्रथमव्याख्यान फलितम् । अङ्गमेव वा णेर्विशेष्यम् । तथाच चङ्परे णौ यदङ्गमिति द्वितीय व्याख्यानं फलितम् । इति व्यवस्थया पक्षद्वयेन सन्वत्त्व दीर्घश्चेत्युभयमिदञ्चकासृधातौ ण्यन्ते चङि णिलोपे द्वित्वे अचचकासत् इत्यत्र न स्यात्, स्याच्चेत्यन्वयः । तत्र चङ्परे णौ यल्लघ्विति व्याख्याने सति नैव उभय स्यात् । चङ्परस्य णे. कास् इत्यनेन व्यवहितत्वात् । अचीकमतेत्यादौ त्वेकव्यवधानन्तु येन नाव्यव-