पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
९५
बालमनोरमा

४६१ वन ४६२ शब्दे' । स्तनति । वनति । 'वन ४६३ षण ४६४ संभक्तौ' । वनेरर्थभेदात्पुनः पाठः । सनति । ससान । सेनतुः ।

२३१९ । ये विभाषा । (६-४-४३)

जनसनखनामात्त्वं वा स्याद्यादौ क्डिति । सायात्-सन्यात् । 'अम ४६५ गत्यादिषु' । 'कनदीप्तिकान्तिगति-' इत्यत्र गतेः परयोः शब्दसंभक्त्योरादिशब्देन ग्रहः । अमति । आम । 'द्रम ४६६ हम्म ४६७ मीमृ ४६८ गतौ' । द्रमति । दद्राम । 'ह्म्यन्त-' (२२९९) इति न वृद्धिः । अद्रमीत् । हम्मति । जहम्म । मीमति । मिमीम । अयं शब्दे च । 'चमु ४६९ छमु ४७० जमु ४७१ झमु ४७२ अदने' ।

२३२० । ष्ठिवुक्लमुचमां शिति । (७-३-७५)

एषामचो दीर्घः स्याच्छिति ।

आङि चम इति वक्तव्यम् ।

आचामति । 'आङि' किम् । चमति विचमति । अचमीत् । जिमिं केचित्पठन्ति । जेमति । 'क्रमु ४७३ पादविक्षेपे' ।


टकारः । तदाह । स्तनतीति । वनषणेति ॥ द्वितीयः षोपदेशः । ननु ष्टनवनशब्द इति, वनेः पठितस्य पुनः पाठो व्यर्थ इत्यत आह । अर्थभेदादिति ॥ वने. शब्दे सम्भक्तौच वृत्तिरिष्टा । ष्टनेस्तु शब्द एव वृत्तिरिष्टा । तत्र ष्टन वन षण शब्दे सम्भक्तौ चेत्युक्तौ ष्टनेरपि सम्भक्तौ वृत्तिः स्यात् । ष्टन शब्द इत्युक्त्वा षण सम्भक्तौचेति पाठे तु गौरवमिति भावः । आशीर्लिङि विशेषमाह । ये विभाषेति ॥ जन सन खनां सन् झलोरित्यतः जनसनखनामित्यनुवर्तते । अनुदात्तोपदेशेत्यतः क्डितीति । ये इति तद्विशेषणम् । अकार उच्चारणार्थः । तदादिविधिः । विड्वनोरनुनासिकस्यादित्यतः आदित्यनुवर्तते । तदाह । जनसनखनामित्यादिना । सायादिति ॥ नकारस्य आत्वे सवर्णदीर्घः। द्रम हम्म मीमृ गताविति ॥ आद्योऽदुपधः । न वृद्धिरिति ॥ अद्रमीदित्यत्र हलन्तलक्षणायां वृद्धौ नेटीति निषिद्धायां ह्म्यन्तेत्यतो अतोहलादेरिति वृद्धिर्नेत्यर्थः । जहम्मेति ॥ अभ्यासचुत्वेन हस्य झः । तस्य अभ्यासेचर्चेत्यनेन जः । मिमीमेति ॥ मीमृधातोर्णलि द्वित्वे अभ्यासह्रस्वः । अयंशब्दे चेति ॥ मीमृधातुरित्यर्थः । ष्ठिवुक्लम्विति ॥ शमामष्टानां दीर्घः श्यनीत्यतः दीर्घ इत्यनुवर्तते । दीर्घश्रुत्या अच इत्युपस्थितम् । तदाह । एषामचो दीर्घ इति ॥ ष्ठिवु क्लमु आचम् एषां द्वन्द्वः । आचम् इत्यनेन आङ्पूर्वकस्य चमेर्ग्रहणम् । अचमीदिति ॥ ह्म्यन्तेति न वृद्धिः । क्रमु पादेति ॥ उदित्वमुदितो वेति विकल्पा-