पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१२५
बालमनोरमा ।


(प ११४) इति परिभाषाभ्याम् । श्रपयति विक्लेदयतीत्यर्थः । पाकादन्यत्र श्रापयति । स्वेदयतीत्यर्थः । मारणतोषणनिशामनेषु ज्ञा ८११ । 'निशामनं चाक्षुषज्ञानम्' इति माधवः । ज्ञापनमात्रम् इत्यन्ये । 'निशानेषु' इति पाठान्तरम् । निशानं तीक्ष्णीकरणम् । एष्वेवार्थेषु जानातिर्मित् । 'ज्ञप मिच्च' इति चुरादौ । ज्ञापनं मारणादिकं च तस्यार्थः । कथं 'विज्ञापना भर्तृषु सिद्धिमेति' इति 'तज्ज्ञापयत्याचार्यः' इति च । शृणु । माधवमते अचाक्षुषज्ञाने मित्त्वाभावात् । ज्ञापनमात्रे मित्त्वमिति मते तु 'ज्ञा नियोगे' इति चौरादिकस्य । धातूनामनेकार्थत्वात् ।


भाषाभ्यामित्यन्तम् ॥ परिभाषाभ्यामुभयोरनुकरणमित्यन्वय । श्रपयतीति ॥ श्रै धातोर्णिचि 'आदेच उपदेशे' इत्यात्वे 'अर्तिह्री' इति पुकि मिता ह्रस्व. । श्रा धातोस्तु स्वत एवाऽऽदन्तत्वाण्णिचि पुकि ह्रस्व । पाकादन्यत्रेति ॥ अर्थनिर्देशस्योपलक्षणत्वादिति भावः 'स्वरति सूति सूयति' इति सूत्रे सू इति पठितेऽपि द्वयोर्ग्रहणे सिद्धे सूतिसूयत्यो पृथग्ग्रहण 'लुग्विकरण' इति परिभाषा ज्ञापयतीत्याहुः । प्रतिपदोक्तपरिभाषा तु न्यायसिद्धेत्युक्तमेव । मारणेति ॥ मारणे तोषणे निशामने च ज्ञा धातुर्वर्तत इत्यर्थ । अक्षतस्य मारणे सम्पूर्वकस्यैव ज्ञाधातोः प्रयोगः । चाक्षुषज्ञानमिति ॥ निपूर्वकात् 'शम आलोचने' इत्यस्मात् चौरादिकण्यन्तात् ल्युटि निशामनशब्दस्य निष्पत्तेरिति भावः । ज्ञापनमात्रमिति ॥ उपसर्गवशादिह ज्ञापने वृत्तिः । चाक्षुषत्वञ्च ज्ञानस्य न विवक्षितमिति भाव । निशानेष्वितीति ॥ 'मारणतोषणनिशानेषु ज्ञा' इति पाठान्तरमित्यर्थः । ननु ज्ञाधातोरस्माल्लडादौ शपि 'ज्ञाजनोर्जा' इति जादेशे जाति जात इत्यादि स्यादित्यत आह । एष्वेवेति ॥ ज्ञा अवबोधने इति श्नाविकरणस्यैव मारणादिष्वर्थेषु णौ मित्त्वार्थमिहानुवादात् श्नाविकरण एवायमिति भावः । जानाते मित्त्वफलन्तु णौ ह्रस्वः । पशु संज्ञपयति अक्षत मारयतीत्यर्थ । हरि ज्ञपयति । सन्तोषयतीत्यर्थः । रूप ज्ञपयति माधवमते दर्शयतीत्यर्थ । मतान्तरे तु बोधयतीत्यर्थ । शर ज्ञपयति तीक्ष्णीकरोतीत्यर्थ. । ननु माधवमते बोधयतीत्यर्थे ज्ञपयतीति कथ मित्त्वम् । तन्मते चाक्षुषज्ञानस्यैव निशामनशब्दार्थत्वादित्यत आह । ज्ञप मिच्चेति चुरादाविति ॥ एवञ्च चौरादिक ज्ञाधातुमादाय बोधनेऽप्यर्थे ज्ञपयतीति ह्रस्वस्सङ्गच्छते इति भाव । ननु चौरादिकस्यापि ज्ञपेर्मारणतोषणनिशामनेष्वेवार्थेषु मित्त्वमस्तु । तत्रार्थान्तरनिर्देशाभावात् । तथाच माधवमते कथं बोधनेऽर्थे मित्त्वमित्यत आह । ज्ञापनं मारणादिकञ्च तस्यार्थ इति ॥ ज्ञापन मारण तोषण निशामनञ्च तस्य चौरादिकस्य ज्ञपधातोरर्थो माधवमते इत्यर्थः । कथमिति ॥ ज्ञाधातोर्ज्ञपधातोश्च णौ मित्त्वाध्द्रस्वप्रसङ्गादिति भावः । शृण्विति ॥ उत्तरमिति शेषः । मित्त्वाभावादिति ॥ ह्रस्वो नेति शेषः । विज्ञापनेत्यत्र तत् ज्ञापयतीत्यत्र च अचाक्षुषमेवाऽऽत्मज्ञान विवक्षितमिति भावः । ननु ज्ञापनमात्रे मित्त्वमिति मते विज्ञापनेत्यत्र तत् ज्ञापयतीत्यत्र च मित्त्व दुर्वारमित्यत आह । ज्ञापनमात्रे इति । चौरादिकस्येति ॥