तेन एत्त्वसिज्लुकौ न । सायात् । असासीत् । कै ९१६ गै ९१७ शब्दे । गेयात् । अगासीत् । शै ९१८ श्रै ९१९ पाके । पै ९२० ओ वै ९२१ शोषणे । पायात् । अपासीत् । 'घुमास्था–’ (सू २४६२) इतीत्त्वं, तदपवाद 'एर्लिङि' (सू २३७४) 'इत्येत्त्वं' 'गाति स्था–' (सू २२२३) इति सिज्लुक् च, न । पारूपस्य लाक्षणिकत्वात् । ष्टै ९२२ वेष्टने । स्तायति । ष्णै ९२३ वेष्टने । 'शोभायां च' इत्येके । स्नायति । दैप् ९२४ शोधने । दायति । अघुत्वादेत्त्वसिज्लुकौ न । दायात् । अदासीत् । पा ९२५ पाने । 'पाघ्राध्मा--' (सू २३६०) इति पिबादेशः । तस्यादन्तत्वान्नोपधागुणः । पिबति । पेयात् । अपात् । घ्रा ९१६ गन्धोपादाने । जिघ्रति । घ्रायात्-घ्रेयात् । अघ्रासीत् ।
इति श्यन्विकस्णस्येत्यर्थ । अत्र व्याख्यानमेव शरणम् । 'विभाषा घ्राधेट्' इत्यत्र श्यन्विकरणाभ्यां साहचर्याच्च । 'पै ओ वै शोषणे' । पायति । वायति । 'ओदितश्च' इति निष्ठानत्वार्थमोदित्त्वम् । ननु पैधातोः कर्मणि लटि यकि आत्त्वे पायते इत्यत्र 'घुमास्थागापाजहातिसां हलि' इति ईत्त्व स्यात् । तथा आशीर्लिङि पायात् इत्यत्र 'एर्लिङि’ इति एत्व स्यात् । तत्रापि 'घुमास्थागापाजहातिसाम्' इत्यनुवृत्तेः । तथा लुडि अपासीदित्यत्र ‘गातिस्था’ इति सिचो लुकि ‘यमरम’ इति इटः अभावात्तत्सन्नियोगशिष्टस्सगपि न स्यादित्यत आह । घुमास्थेतीत्त्वमित्यादिना । पारूपस्येति ॥ उदाहृतसूत्रत्रयेषु लक्षणप्रतिपदोक्तपरिभाषया आदन्तत्वेन उपदिष्टस्यैव पाधातोर्ग्रहणम् । नतु पैधातोः कृतात्वस्येति भावः । एवञ्च प्रकृते पैधातोराशीर्लिङि पायादित्येव रूपम् । लुडि सगिटोः अपासीत्, अपासिष्टामित्येव रूपम् । ष्टै वेष्टने इति ॥ षोपदेशोऽयम् । कृतष्टुत्वनिर्देशः । सत्वे कृते ष्टुत्वनिवृत्तिः । तदाह । स्तायतीति ॥ ष्णैधातुरपि षोपदेशः कृतष्टुत्वनिर्देशः । सत्वे कृते ष्टुत्वनिवृत्तिः । तदाह । स्नायतीति ॥ दैप् शोधने । अघुत्वादिति ॥ घुसंज्ञाविधौ दाब्दैपौ विनेत्युक्तेरिति भावः । 'पा पाने' पिबादेश इति । शिद्विषये इति शेषः । पिबादेशस्य अदन्तत्वात् न लघूपधगुण इति भाष्ये स्पष्टम् । अनिडयम् । पपौ । पपतुः । पपुः । भारद्वाजनियमात् थलि वेट् । पपिथ-पपाथ । पपथुः । पप । पपौ । पपिव । पपिम । क्रादिनियमादिट् । पाता । पास्यति । पिबतु । अपिबत् । पिबेत् । आशीर्लिङि 'एर्लिङि' इत्येत्त्वमभिप्रेत्याह । पेयादिति ॥ 'गातिस्था' इति सिचो लुगित्यभिप्रेत्याह । अपादिति ॥ अपाताम् । अपुः । अपाः । अपातम् । अपात । अपाम् । अपाव । अपाम । अपास्यत् । घ्रा गन्धोपादाने ॥ 'पाघ्राध्मा' इति शिद्विषये जिघ्रादेशः । तदाह । जिघ्रतीति ॥ अनिडयम् । जघ्रौ । जघ्रतुः । जघ्रुः । भारद्वाजनियमात् थलि वेट् । जघ्रिथ-जघ्राथ । जघ्रथुः । जघ्र । जघ्रौ । जघ्रिव । जघ्रिम । क्रादिनियमादिट् । घ्राता । घ्रास्यति । जिघ्रतु । आजिघ्रत् । जिघ्रेत् । आशीर्लिङि 'वाऽन्यस्य संयोगादेः' इत्येत्त्वविकल्पं मत्वा आह । घ्रायात्-घ्रेयादिति ॥ 'विभाषा घ्राधेट्’ इति सिचो वा लुक् । लुगभावपक्षे आदन्तत्वात्सगिटौ । तदाह । अघ्रासीदिति ॥ ध्माधातुरनिट् । 'पाघ्राध्मा' इति शिद्विषये