पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५०
[भ्वादि
सिध्दान्तकौमुदीसहिता

अर्ता । अरिष्यति । अर्यात् । आर्षीत् । आर्ष्टाम् । गृ ९३७ घृ ९३८ सेचने । गरति । जगार । जगर्थ । जग्रिव । रिङ् । ग्रियात् । अगार्षीत् । ध्वृ ९३९ हूर्च्छने । स्रु ९४० गतौ । सुस्रोथ । सुस्रुव । स्रूयात् । 'णिश्रि –’ (सू २३१२) इति चङ् । लघूपधगुणादन्तरङ्गत्वादुवङ् । असुस्रुवत् । पु ९४१ प्रसवैश्वर्ययोः । प्रसवोऽभ्यनुज्ञानम् । सुषोथ-सुषविथ । सुषुविव । सोता ।


डित्यनुवृत्तौ पुनरिङ्ग्रहणन्तु 'न वृभ्द्यश्चतुर्भ्यः' इत्यतो नेत्यनुवृत्तिनिवृत्तये इत्याहुः । आरिथेति ॥ आरथुः । आरुः । आर । आरिव । आरिम । क्रादिनियमादिट् । अरिष्यतीति ॥ 'ऋद्धनोः' इति इट् । ॠच्छतु । आर्छत् । अर्यादिति ॥ 'गुणोऽर्ति' इति गुणे रपरत्वमिति भावः । आर्षीदिति ॥ सिचि वृद्धिः । 'सर्तिशास्त्यर्तिभ्यश्च' इति अड् तु न । तत्र भौवादिकस्य ॠधातोर्न ग्रहणमित्यनुपदमेवोक्तेरिति भावः । आरिष्यत् । 'ॠद्धनो स्ये' इति इट् । 'गृ घृ सेचने' । अनिटौ । गरतीति ॥ जगार । असयोगादित्वात् 'ॠतश्च' इति गुणो न । जग्रतुः । जग्रुः । क्रादिनियमेन इटि प्राप्ते अचस्तास्वदिति नेट् । ॠदन्तत्वाद्भारद्वाजमतेऽपि नेट् । तदाह । जगर्थेति ॥ जग्रथुः । जग्र । जगार । जगर । जग्रिवेति ॥ क्रादिनियमादिट् । जग्रिम । गर्ता । गरिष्यति । ‘ॠद्धनोः’ इति इट् । गरतु । अगरत् । गरेत् । रिङिति ॥ आशीर्लिङि असयोगादित्वात् 'गुणोर्ति' इति गुणाभावे 'रिड् शयग्लिड्क्षु' इति रिडित्यर्थ । ग्रियादिति ॥ रीडि प्रकृते रिड्विधेर्न दीर्घ । अगार्षीदिति ॥ सिचि वृद्धौ रपरत्वम् । अगार्ष्टाम् । अगरिष्यत् । 'ॠद्धनोः' इति इट् । घृधातोस्तु भौवादिकस्य घृत, घर्म, घृणा, इत्यत्रैव प्रयोगः, नान्यत्रेति ‘तृज्वत्क्रोष्टुः’ इति सूत्रे भाष्ये स्पष्टम् । ध्वृ हूर्च्छने इति ॥ हूर्च्छनङ्कुटिलीभवनम् । ध्वरति । दध्वार । ‘ॠतश्च' इति गुणः । दध्वरतुः । दध्वरुः । थलि 'अचवस्तास्वत्’ इति क्रादिनियमप्राप्त इट् न । ॠदन्तत्वाच्च भारद्वाजमतेऽपि नेट् । दध्वर्थ । दध्वरथुः । दध्वर । दध्वार-दध्वर । दध्वरिव । दध्वरिम । क्रादिनियमादिट् । ध्वर्ता । ‘ॠद्धनोः' इति इट् । ध्वरिष्यति । ध्वरतु । अध्वरत् । ध्वरेत् । आशीर्लिङि ‘गुणोऽर्ति’ इति गुण । ध्वर्यात् । अध्वार्षीत् । अध्वरिष्यत् । 'स्रु गतौ' । अनिट् । स्रवति । सुस्राव । अतुरादौ कित्त्वात् गुणाभावे उवड् । सुस्रुवतुः । सुस्रुवुः । क्रादित्वान्नेट् । तदाह । सुस्रोथेति ॥ सुस्रुवथुः । सुस्रुव । सुस्राव-सुस्रव । सुस्रुवेति ॥ क्रादित्वान्नेट् । सुस्रुमेत्यपि ज्ञेयम् । स्रोता । स्रोष्यति । स्रवतु । अस्रवत् । स्रवेत् । स्रूयादिति ॥ 'अकृत्सार्वधातुकयोः' इति दीर्घ इति भावः । लुडि विशेषमाह । णिश्रीति चङिति ॥ 'चङि' इति द्वित्वमित्यपि द्रष्टव्यम् । ननु असुस्रु अ त् इति स्थिते रेफादुत्तरस्य उकारस्य सार्वधातुकार्धधातुकयोरिति गुणस्य चड्निमित्तकस्य डित्त्वान्निषेधेऽपि उवडपेक्षया परत्वात् तिपन्निमित्तीकृत्य रेफादुकारस्य लघूपधगुणः स्यादित्यत आह । लघूपधगुणादन्तरङ्गत्वादुवङिति ॥ बहिर्भृततिबपेक्षत्वाल्लघूपधगुणः बहिरङ्गः । अन्तर्गतचडपेक्षत्वादुवडन्तरङ्गः । अत: उवडेव भवति । परादन्तरङ्गस्य बलवत्त्वादिति भावः । असुस्रुवदिति ॥ अस्रोष्यत् । षु प्रसवेति ॥ अत्र