२४११ । वेञो वयिः । (२-४-४१)
वा स्याल्लिटि । इकार उच्चारणार्थः । उवाय ।
२४१२ । ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च । (६-१-१६)
एषां किति ङिति च सम्प्रसारणं स्यात् । यकारस्य प्राप्ते ।
२४१३ । लिटि वयो यः । (६-१-३८)
वयो यस्य सम्प्रसारणं न स्याल्लिटि । ऊयतुः । ऊयुः ।
२४१४ । वश्चास्यान्यतरस्यां किति । (६-१-३९)
वयो यस्य वो वा स्यात्किति लिटि । ऊवतुः । ऊवुः । वयेस्तासावभा-
हलन्तलक्षणवृद्धौ सस्य तकारः । अवात्तामिति ॥ अवस् स् तामिति स्थिते वृद्धौ 'झलो झलि' इति सलोपे प्रत्ययलक्षणमाश्रित्य सकाराद्यार्धधातुकपरत्वात् धातुसकारस्य 'सस्सि' इति तकारः । वस्तुतस्तु सिज्लोपस्यासिद्धत्वात् ‘सस्सि’ इति तकारे सिज्लोप इति बोध्द्यम्। अवात्सु । अवात्सीः । अवात्तम् । अवात्त । अवात्सम् । अवात्स्व । अवात्स्म । अवत्स्यत् । वेञ्धातुरनिट् । ञित्त्वादुभयपदी । तन्तुसन्तानः पटनिर्माणार्थन्तन्तूनान्तिर्यगतिर्यक्प्रसारणविशेष । वयति-वयते इति ॥ शपि गुणायादेशौ । वेञो वयिः ॥ शेषपूरणेन सूत्र व्याचष्टे । वा स्याल्लिटीति ॥ 'लिट्यन्यतरस्याम्’ इत्यतः अन्यतरस्यामित्यनुवृत्तेरिति भावः । उच्चारणार्थ इति ॥ इकारस्य इत्संज्ञकत्वे तु नुम् स्यादिति भाव । उवायेति ॥ णलि वयादेशे यजादित्वादकिति लिटि परे 'लिट्यभ्यासस्य' इति वकारस्य सम्प्रसारणे उपधावृद्धिरिति भावः । अत्र यकारस्य तु न सम्प्रसारणम् । ‘लिटि वयो य:’ इति तन्निषेधस्यानुपदमेव वक्ष्यमाणत्वादिति भावः । यद्यपि णलि वयादेशाभावेऽपि द्वित्वे अभ्यासस्य सम्प्रसारणे ‘अचो ञ्णिति’ इति वृद्धौ आयादेशे उवायेति सिध्द्यति । तथापि ऊयतुरित्याद्यर्थे वयादेशस्य आवश्यकत्वादिहापि वयादेशो न्याय्यत्वादुपन्यस्तः । वे अतुस् इति स्थिते वयादेशे कृते । ग्रहिज्या ॥ चकारेण 'वचिस्वपियजादीनाम्' इत्यतः कितीति समुच्चीयते । ष्यडस्सम्प्रसारणमित्यतः सम्प्रसारणमित्यनुवर्तते । तदाह । एषामित्यादि ॥ अत्र परस्मैपदिग्रह्यादिसाहचर्यात्‘ अयवयपय' इति पठितस्यात्मनेपदिनो वयेर्न ग्रहणम् । यजादित्वादेव वये सम्प्रसारणे सिद्धे अत्र वयग्रहण स्पष्टार्थमिति भाष्ये स्पष्टम् । इति यकारस्य प्राप्ते इति ॥ 'न सम्प्रसारणे सम्प्रसारणम्' इति लिङ्गादन्त्यस्य यण् पूर्व सम्प्रसारणमिति विज्ञानाद्यकारस्य सम्प्रसारणे प्राप्ते सतीत्यर्धः । लिटि वयो ॥ सम्प्रसारणन्नेति ॥ 'न सम्प्रसारणे सम्प्रसारणम्' इत्यत तदनुवृत्तेरिति भावः । तथा च यकारस्य सम्प्रसारणनिषेधे वकारस्य सम्प्रसारणमिति भावः । तदाह । ऊयतुरिति ॥ वश्चास्य ॥ 'लिटि वयो यः’ इत्यनुवर्तते । तदाह । वयो यस्येत्यादि ।