अथ द्वौ परस्मैपदिनौ । वद १००९ व्यक्तायां वाचि । अच्छ वदति । उवाद । ऊदतुः । उवदिथ । वदिता । उद्यात् । 'वदव्रज –' (सू २२६७) इति वृद्धिः । अवादीत् । टु ओ श्वि १०१० गतिवृद्ध्योः । श्वयति ।
२४२० । विभाषा श्वेः । (६-१-३०)
श्वयतेः सम्प्रसारणं वा स्याल्लिटि यङि च । शुशाव । शुशुवतुः । 'श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेधः’ (वा ३४६२) । तेन ‘लिट्यभ्यासस्य--'
अह्वन्नित्यादि । अह्वतेति ॥ लुडि आत्मनेपदे अडि रूपम् । अह्वेताम् । अह्वन्तेत्यादि । अडभावपक्षे त्वाह । अह्वास्तेति ॥ अह्वासाताम् । अह्वासत इत्यादि । अह्वास्यत् । अह्वास्यत । वद व्यक्तायां वाचीति ॥ अज्झल्विभागेन स्पष्टोच्चारणे इत्यर्थः । सेडयम् । अच्छ वदति । अच्छेत्यव्ययमाभिमुख्ये । अभिमुख वदतीत्यर्थः । 'अच्छ गत्यर्थवदेषु' इति गतित्वादच्छेत्यस्य धातोः प्रागेव प्रयोग इति भावः । अकिति लिटि द्वित्वे ‘लिट्यभ्यासस्य’ इति सम्प्रसारणमिति मत्वा आह । उवादेति ॥ किति लिटि तु ‘वचिस्वपियजादीनाम्' इति द्वित्वात्प्राक् सम्प्रसारणे कृते द्वित्वे सवर्णदीर्घ इति भावः । ऊदतुरिति । उवदिथेति ॥ द्वित्वे अभ्यासस्य सम्प्रसारणमिति भावः । ऊदथुः । ऊद । उवाद-उवद । ऊदिव । ऊदिम । वदितेति ॥ तासि इट् । वदिष्यति । वदतु । अवदत् । वदेत् । उद्यादिति ॥ आशीर्लिङि यासुटः कित्त्वात् ‘वचिस्वपि’ इति सम्प्रसारणमिति भावः । अवादीत् इत्यत्र हलन्तलक्षणवृद्धेः ‘नेटि’ इति निषेधेऽपि ‘अतो हलादेः’ इति वृद्धिविकल्पमाशङ्क्य वदधातोः पृथक् ग्रहणाद्वृद्धिरित्यभिप्रेत्याह । वदव्रजेति वृद्धिरिति ॥ एतदर्थमेव ‘वदव्रजहलन्तस्य’ इत्यत्र वदधातोः पृथक् ग्रहणमिति भावः । टु ओ श्वि इति ॥ टुरोकारश्चेत् । श्वयतीति ॥ शपि गुणायादेशौ । लिटि तु अकिति णलादौ 'लिट्यभ्यासस्य' इत्यभ्यासस्य नित्यं सम्प्रसारणे प्राप्ते किति तु अतुसादौ द्वित्वात्प्राक् ‘वचिस्वपि' इति नित्यं सम्प्रसारणे प्राप्ते आह । विभाषा श्वेः ॥ सम्प्रसारणमिति ॥ ‘ष्यडस्सम्प्रसारणम्' इत्यतस्तदनुवृत्तेरिति भावः । लिटि यङि चेति ॥ 'लिड्यडोः' इत्यनुवृत्तेरिति भावः । शुशावेति ॥ णलि अभ्याससम्प्रसारणं बाधित्वा द्वित्वात्प्रागेव परत्वादनेन सम्प्रसारणे कृते ततो द्वित्वे वृध्द्यावादेशाविति भावः । अकित्त्वाद्वचिस्वपीत्यस्य नात्र प्राप्तिः । तथाच लिड्वत्स्वेकवचनेषु द्वित्वात् प्रागप्राप्तस्य सम्प्रसारणस्य विकल्पविधिः । शुशुवतुरिति ॥ लिटि तु द्विवचनबहुवचनेषु द्वित्वात्प्राक् वचिस्वपीति सम्प्रसारणस्य विकल्पविधिः । तथाच उभयत्र विभाषेयम् । यडशे त्वप्राप्तविभाषैवेयम् । शोशूयते । शेश्वीयते । तत्र णलि एतत्सम्प्रसारणाभावपक्षे श्वि इत्यस्य द्वित्वानन्तरमभ्याससम्प्रसारणे शुश्वाय इति प्राप्ते आह । श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेधः इति ॥ लिट्यभ्याससम्प्रसारणस्य प्रतिषेधो वक्तव्य इत्यर्थः । तथाच श्वि इत्यभ्यासस्य सम्प्रसारणाभावादभ्यासे इकार एव श्रूयते इत्याह । तेनेति ॥ शूयादिति ॥ आशीर्लिङि यासुटः