पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१९१

एतत् पृष्ठम् परिष्कृतम् अस्ति

। श्रीरस्तु ।

॥ अथ तिङन्तादादिप्रकरणम् ॥


अद १०११ भक्षणे । द्वौ परस्मैपदिनौ ।

२४२३ । अदिप्रभृतिभ्यः शपः । (२-४-७२)

लुक्स्यात् । अत्ति । अत्तः । अदन्ति ।

२४२४ । लिट्यन्यतरस्याम् । (२-४-४०)

अदो घस्लृ वा स्याल्लिटि । जघास । 'गमहन -' (सू २३६३) इत्युपधालोपः । तस्य चर्विधिं प्रति स्थानिवद्भावनिषेधाद्धस्य चर्त्वम् । 'शासिवसि--' (सू २४१०) इति षत्वम् । जक्षतुः । जक्षुः । घसेस्तासावभावात्थलि नित्य-


अथ लुग्विकरणान् धातून्निरूपयितुमुपक्रमते । अद भक्षणे इति ॥ अनिडयम् । अदिप्रभृतिभ्यः ॥ 'ण्यक्षत्रियार्षञितः' इत्यतो लुगित्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । लुक् स्यादिति ॥ अदिप्रभृतिभ्यः परस्य शपो लुगिति फलितम् । अत्तीति ॥ शपो लुकि दस्य चर्त्वेन तकारः । एवमत्त इत्यपि । अदन्तीति ॥ एतदर्थमेव 'झोऽन्तः' इत्यत्र अकारादिरादेश आश्रितः । अत्सि । अत्थः । अत्थ । अद्मि । अद्वः । अद्मः । लिट्यन्यतरस्याम् ॥ 'अदो जग्धिः' इत्यतः अद इति 'लुड्सनोर्घस्लृ' इत्यतो घस्लृ इति चानुवर्तते । तदाह । अदः इति ॥ आदेशे लृकार इत् । घसादेशः अनिट् । जघासेति ॥ अकित्त्वात् 'गमहन' इत्युपधालोपो नेति भावः । जघस् अतुसिति स्थिते आह । गमहनेत्युपधालोपः इति ॥ 'असयोगात्' इति कित्त्वादिति भावः । जघ्स् अतुसिति स्थिते घकारस्य चर्त्व वक्ष्यन् उपधालोपस्य स्थानिवत्त्वमाशङ्क्याह । तस्येति ॥ उपधालोपस्येत्यर्थः । जघ्स् अतुसिति स्थिते सकारस्य आदेशप्रत्ययावयवत्वाभावादाह । शासीति ॥ थलि तु क्रादिनियमान्नित्यमिट् । 'उपदेशेऽत्वतः' इति निषेधस्य तासौ नित्यानिड्विषयत्वात् । घस् तु तासौ न विद्यत एव कुतस्तस्य तासावनिट्कत्वम् । ‘यस्तासावस्ति अनिट् च' इति हि भाष्यम् । तदाह । घसेस्तासाविति । जघसिथेति ॥ जक्षथुः । जक्ष । जघास-जघस । जक्षिव ।