पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८२
[अदादि
सिध्दान्तकौमुदीसहिता

२४२८ । अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति । (६-४-३७)

'अनुनासिक--' इति लुप्तषष्ठीकं पदं वनतीतरेषां विशेषणम् । अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ क्ङिति परे । यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः । तनुक्षणुक्षिणुऋणुतृणुघृणुवनुमनु तनोत्यादयः । हतः । घ्नन्ति ।

२४२९ । वमोर्वा । (८-४-२३)

उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णो वा स्याद्वमयोः परयोः ।


नस्यानुस्वारपरसवर्णौ । 'नेर्गद' इति णत्वम् । अनुदात्तोपदेश ॥ ऊदॄदन्तैरित्यादिभिस्सङ्गृहीता अनुदात्तोपदेशा वनतिर्भौवादिक तनोत्यादयस्तु 'तनु विस्तारे' इत्यादिना पठिष्यन्ते । एतेषामनुनासिकस्य लोपः स्यात् झलादौ क्ङिति इति प्रतीयमानार्थः । एवं सति मुक्तमित्यादौ मुचादीनामपि मकारादिलोपः स्यात् । तत्राह । अनुनासिकः इति लुप्तषष्ठीकं पदमिति ॥ एवमप्युक्तातिप्रसङ्गतादवस्थ्यादाह । वनतीतरेषां विशेषणमिति ॥ अनुदात्तोपदेशानां तनोत्यादीनाञ्चेत्यर्थः । तथाच विशेषणत्वात्तदन्तविधौ अनुनासिकान्तानामनुदात्तोपदशानान्तनोत्यादीनां वनतेश्चेत्येषामन्तस्य लोपः स्यादित्यर्थलाभान्मुक्तमित्यादौ नातिप्रसङ्गः । तदाह । अनुनासिकान्तानामित्यादिना ॥ वनधातोस्तु अनुनासिकान्तत्वान्न वशेषणम् । अव्यभिचारादिति भावः । अत्रानुदात्तोपदेशान् अनुनासिकान्तान् दर्शयति । यमिरमीति ॥ अनुदात्तोपदेशेषु एतेषामेव षण्णामनुनासिकान्तत्वादिति भावः । अथ तनेातीत्यादीननुनासिकान्तान् दर्शयति । तनुक्षणुक्षिण्विति ॥ मनु इत्यन्त समाहारद्वन्द्वात् प्रथमैकवचनम् । एतेऽष्टौ तनोत्यादयोऽनुनासिकान्ता इत्यर्थः । 'तनु विस्तारे' इत्यारभ्य 'डु कृञ् करणे' इत्यन्ता दश धातवस्तनोत्यादयः । तत्र करोतिरनुनासिकान्तत्वाभावादिह न गृह्यते । 'जनसनखनां सन्झलोः' इनि सनोतेरात्त्वस्य वक्ष्यमाणत्वात् सोऽप्यत्र न गृहीतः । ‘वनु याचने' इति तनादौ पठितम् । तस्य उविकरणतया उदित्त्वेन च वनतिग्रहणेनाग्रहणात् तनादौ पठितस्यापि पृथग्ग्रहणम् । तत्र तानादिकस्य वनेरुदित्वात् 'उदितो वा' इति कायामिड्विकल्पात् ‘यस्य विभाषा' इति निष्ठायामिडभावपक्षे, वत्, वतवान्, इत्युदाहरणम् । वनतेस्तु भौवादिकस्य उदित्त्वाभावान्निष्ठाया सेट्कत्वेऽपि क्तिनि वतिरित्युदाहरणम् । 'तितुत्रतथसिसुसरकसेषु च' इति इण्निषेधादित्यलम् । हतः इति ॥ तसि अनुदात्तोपदेशानुनासिकान्तत्वान्नकारलोपः । 'सार्वधातुकमपित्' इति तसो ङित्त्वात् । घ्नन्तीति ॥ अजादिडित्परकत्वात् 'गमहन' इत्युपधालोपे 'हो हन्तेः’ इति कुत्वेन हस्य घः । हसि । हथः । हथ । वमोर्वा ॥ 'उपसर्गादसमासेऽपि' इत्यतः उपसर्गादित्यनुवर्तते । 'रषाभ्यान्ने णः' इति सूत्रमनुवर्तते । 'हन्तेरत्पूर्वस्य' इत्यतो हन्तेरिति । तदाह । उपसर्गस्थान्निमित्तादिति ॥ णलि जहा-