पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१९४

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१८३
बालमनोरमा ।

प्रहण्मि-प्रहन्मि । प्रहण्वः-प्रहन्वः । 'हो हन्तेः–’ (सू ३५८) इति कुत्वम् । जघान । जघ्नतुः । जघ्नुः ।

२४३० । अभ्यासाच्च । (७-३-५५)

अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात् । जघनिथ-जघन्थ । हन्ता । 'ऋद्धनोः–' (सू २३६६) इतीट् । हनिष्यति । हन्तु । हतात् । घ्नन्तु ।

२४३१ । हन्तेर्जः । (६-४-३६)

हौ परे आभीयतया जस्यासिद्धत्वाद्धेर्न लुक् । जहि । हनानि । हनाव । हनाम । अहन् । अहताम् । अघ्नन् । अहनम् ।

२४३२ । आर्धधातुके । (२-४-३५)

इत्यधिकृत्य ।

२४३३ । हनो वध लिङि । (२-४-४२)

२४३४ । लुङि च । (२-४-४३)


नेति स्थिते आह । हो हन्तेरिति ॥ 'अभ्यासाच्च' इत्यपेक्षया अस्यान्तरङ्गत्वेन न्याय्यत्वादिति भावः । जघ्नतुरिति ॥ 'गमहन' इत्युपधालोपे 'हो हन्ते ' इति कुत्वम् । थलि भारद्वाजनियमादिड्विकल्पे जहनिथ। जहन् थ, इति स्थिते ञ्णित्प्रत्ययपरत्वाभावान्नकारपरत्वाभावाच्च ‘हो हन्ते' इति कुत्वाप्राप्तौ । अभ्यासाच्च ॥ ‘हो हन्तेः’ इत्यनुवर्तते । ‘चजो कुघिण्ण्यतोः' इत्यत कुग्रहणञ्च । तदाह । अभ्यासात् परस्येत्यादिना । जघनिथ-जघन्थेति ॥ इडभावे नस्यानुस्वारपरसवर्णौ । जघ्नथुः । जघ्न । जघान-जघन । जघ्निव । जघ्निम । लृटि स्ये इण्निषेधमाशङ्क्याह । ऋद्धनोरिति ॥ हन् हि इति स्थिते 'हुझल्भ्यः' इति धित्वे प्राप्ते । हन्तेर्जः ॥ 'शा हौ' इत्यतः हौ इत्यनुवृत्तिमभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । हौ परे इति ॥ कृते जादेशे ‘अतो हेः’ इति हेर्लुकमाशङ्क्य आह । आभीयतयेति । जहीति ॥ हतात् । हतम् । हत । हनानीति ॥ आटः पित्त्वेन डित्त्वाभावान्नोपधालोप इति भावः। अहन्निति ॥ लडस्तिपि 'इतश्च' इति इकारलोपे ‘सयोगान्तस्य’ इति तकारलोपः । न्याय्यत्वाद्धल्ड्यादिलोपो वा । अहनमिति ॥ अहन्व। अहन्म । झलादिपरकत्वाभावान्नोपधादीर्घः । विधिलिङि हन्यात् । हन्याताम् इत्यादि । आशीर्लिङि वधादेश वक्ष्यन्नाह । आर्धधातुके इत्यधिकृत्येति ॥ 'अदो जग्धिः' इत्यादिविधयो वक्ष्यन्ते इति शेषः । तदधिकारस्थ सूत्रमाह । हनो वध ॥ वधेति लुप्तप्रथमाकम् । हनो वधादेशः स्यादार्धधातुके लिडीत्यर्थः । लुङि च ॥