पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२००

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१८९
बालमनोरमा ।

योगविभागो वैचित्र्यार्थः । ईडिषे । ईडिध्वे । 'एकदेशविकृतस्यानन्यत्वात्' ( प ३८ ) । ईडिष्व । ईडिध्वम् । ‘विकृतिग्रहणेन प्रकृतेरग्रहणात्' । ऐड्ढ्वम् । ईश १०२० ऐश्वर्ये । ईष्टे । ईशिषे । ईशिध्वे । आस १०२१ उपवेशने । आस्ते । 'दयायासश्च' । (सू २३२४) आसाञ्चक्रे । आस्स्व । आध्वम् । आसिष्ट । आङश्शासु १०२२ इच्छायाम् । आशास्ते । आशासाते । आङ्पूर्वत्वं प्रायिकम् । तेन 'नमोवाकं प्रशास्महे' इति सिद्धम् । वस १०२३ आच्छादने । वस्ते । वस्से । वध्वे । ववसे । वसिता । कसि १०२४ गतिशासनयोः ।


ध्वयोः इत्येकमेव सूत्र कुतो न कृतमित्यत आह । योगविभागो वैचित्र्यार्थः इति ॥ से इत्यस्य उत्तरत्रानुवृत्तिः ध्वे इत्यस्य पूर्वत्रापकर्ष इति वैचित्र्यद्योतनार्थं इत्यर्थः । स्वतन्त्रेच्छस्य महर्षेर्नियन्तुमशक्यत्वादिति भावः । ईडिषे इति ॥ ईडे । ईड्वहे । ईण्महे । लिटि तु ईडाञ्चक्रे इत्यादि । ईडिता । ईडिष्यते । ईट्टाम् । ननु ईडिष्वेत्यत्र कथमिट् सेशब्दाभावात् । तत्राह । एकदेशेति ॥ एकदेशविकृतत्वात् स्वशब्दस्य इटि ईडिष्व इति रूपमित्यर्थः । ननु तर्हि ईडिध्वम् इत्यत्र कथं नेट् ध्वेस्वरूपापेक्षया ध्वमित्यस्य एकदेशविकृतत्वादित्यत आह । विकृतीति ॥ प्रकृतिग्रहणे तदेकदेशविकृतविकृतस्य ग्रहणम् । न तु विकृतिग्रहणे तदेकदेशविकृताया अपि प्रकृतेर्ग्रहणम् । पुरुषमानयेत्युक्ते हि अन्धोऽनन्धो वा पुरुष आनीयते । अन्धमानय इत्यत्र तु अन्ध एवानीयते न त्वनन्धः । तथाच ध्वम एत्वे कृते ध्वेशब्दः, तेन च विकृतेन ध्वमित्यस्य तत्प्रकृतिभूतस्य न ग्रहणमिति नेडिति भावः । ईडै । ईडावहै । ईडामहै । ऐट्ट । ऐडाताम् । ऐडत । ऐठ्ठाः । ऐडाथाम् । ऐड्ढ्वम् । ऐडि । ऐड्वहि । ऐण्महि । ईडीत । ईडिषीष्ट । ऐडिष्ट । ऐडिष्यत । ईशधातुरीडिवत् । ईष्टे इत्यादि । शस्य व्रश्चादिना षत्वे ष्टुत्वमिति विशेषः । आस उपवेशने । आस्ते इति ॥ आसाते । आसते । आस्से । आसाथे । 'धि च ’ इति सलोप । आध्वे । आसे । आस्वहे । आस्महे । इजादित्वाद्यभावादाह । दयायासश्चेति ॥ आसिता । आसिष्यते । आस्ताम् । आसाताम् । आस्स्वेति ॥ सकारद्वयमत्रबोध्द्यम् । आसाथाम् । आध्वमिति ॥ 'धि च’ इति सलोपः । आसै । आसावहै । आसामहै। आस्त । आसाताम् । आसत । आस्थाः । आसाथाम् । आध्वम् । आसि । आस्वहि । आस्महि । आसीत । आसीयाताम् । आसिषीष्ट । आसिषीयास्ताम् । आसिष्टेति ॥ आसिषातामित्यादि । आसिष्यत । आङश्शासु इच्छायामिति ॥ आङः परश्शासधातुरिच्छायामित्यर्थः । नमोवाकमिति ॥ वचेर्घञि वाकः नमश्शब्दस्य वचनङ्कुर्महे इत्यर्थः । धातूनामनेकार्थत्वात् आसिवद्रूपाणि । वस आच्छादने इति ॥ परिधाने इत्यर्थः । वध्वे इति ॥ 'धि च' इति सलोपः । ववसे इति ॥ वादित्वादेत्त्वाभ्यासलोपौ नेति भावः । वसितेति ॥ अनिट्सु शब्विकरणस्यैव वसेर्ग्रहणमिति भावः । वसिष्यते । वस्ताम् । अवस्त । वसीत । वसिषीष्ट । अवसिष्ट । अवसिष्यत । कसि गतीति ॥ वसधातुवत् । इदित्वान्नुमिति