पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१९१
बालमनोरमा ।

२४४१ । शीङः सार्वधातुके गुणः । (७-४-२१)

'क्ङिति च' (सू २२१७) इत्यस्यापवादः । शेते । शयाते ।

२४४२ । शीङो रुट् । (७-१-६)

शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे । शेध्वे । शये । शेवहे । शिश्ये । शयिता । अशयिष्ट ।

अथ स्तौत्यन्ताः परस्मैपदिनः । ऊर्णुस्तूभयपदी । यु १०३३ मिश्रणे अमिश्रणे च ।

२४४३ । उतो वृद्धिर्लुकि हलि । (७-३-८९)

लुग्विषये उकारस्य वृद्धिः स्यात्पिति हलादौ सार्वधातुके । न त्वभ्यस्तस्य । यौति । युतः । युवन्ति । युयाव । यविता । युयात् । इह 'उतो वृ-


सुवीत । सविषीष्ट इत्यादि स्पष्टम् । 'शीङ् स्वप्ने' सेट् ङित्वात्तङ् । शीङः सार्वधातुके ॥ स्पष्टम् । “सार्वधातुकार्धधातुकयोः' इत्येव सिद्धे किमर्थमिदमित्यत आह । क्ङिति चेत्यस्यापवादः इति ॥ झस्य अदादेशे सति शे अते इति स्थिते । शीङो रुट् ॥ 'झोऽन्तः इत्यतो झ इत्यनुवर्तते 'अदभ्यस्तात्’ इत्यतः अदित्यनुवृत्त षष्ठ्या विपरिणम्यते । तदाह । शीङः परस्य झादेशस्येति ॥ रुटि उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । शेध्वे इति ॥ 'षीध्वलुड्लिटाम्' इत्युक्तेर्न ढः । शिश्ये इति ॥ शिश्यिषे । शिश्यिढ्वे-शिश्यिध्वे । शयितेति ॥ शयिष्यते । शेताम् । शयाताम् । शेष्व । शयाथाम् । शेध्वम् । शयै । शयावहै। शयामहै । अशेत । अशयाताम् । अशेरत । अशेथाः । अशयाथाम् । अशेध्वम् । अशयि । अशेवहि । अशेमहि । शयीत । शयिषीष्ट। अशयिष्टेति ॥ अशयिष्यत इत्यपि ज्ञेयम् । स्तौत्यन्ताः इति ॥ ष्टुञ् स्तुतावित्यतः प्राक्तना इत्यर्थः । ऊर्णुस्तूभयपदीति ॥ ञित्त्वादिति भावः । यु मिश्रणे अमिश्रणे चेति ॥ अमिश्रणम्पृथग्भावः सेडयम् । उतो वृद्विर्लुकि हलि ॥ 'नाभ्यस्तस्याचिपिति सार्वधातुके' इति अचिवर्जमनुवर्तते । लुकीति विषय सप्तमी । दर्शनाभावस्य लुकः परत्वासम्भवात् । तदाह । लुग्विषय इत्यादिना । यौतीति ॥ गुणं बाधित्वा वृद्धिः । युतः इति ॥ अपित्त्वान्न वृद्धिः । युवन्तीति ॥ अपित्त्वाद्वृध्द्यभावे ङित्त्वाद्गुणाभावे उवडिति भावः । यौषि । युथः । युथ । यौमि । युवः । युमः । युयावेति ॥ युयुवतुः । युयुवुः । युयविथ । युयुवथुः । युयुव । युयाव-युयव । युयुविव । युयुविम । यवितेति ॥ उवडं बाधित्वा परत्वाद्गुणः । यविष्यति । यौतु-युतात् । युताम् । युवन्तु। हौ अपित्त्वान्न वृद्धिः । युहि-युतात् । युतम् । युत । आटि पित्त्वेऽपि हलादित्वाभावान्न वृद्धिः । पित्त्वेन ङित्वाभावाद्गुणः । यवानि । यवाव । यवाम । अयौत् । अयुताम् । अयुवन् । अयौः । अयुतम् । अयुत । अयवम् । अयुव । अयुम । विधिलिङ्याह । युयादिति ॥ अत्र यासुडागमसहितस्य तिपः पित्त्वादुतो वृद्धिमाशङ्क्याह । इह उतो वृद्धिर्नेति ॥ कुत