पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९४
[अदादि
सिध्दान्तकौमुदीसहिता

२४४७ । विभाषोर्णोः । (१-२-३)

इडादिप्रत्ययो वा ङित्स्यात् । ऊर्णुनुविथ-ऊर्णुनविथ । ऊर्णुविता-ऊर्णविता । ऊर्णौतु-ऊर्णोतु । ऊर्णवानि । ऊर्णवै ।

२४४८ । गुणोऽपृक्ते । (७-३-९१)

ऊर्णोतेर्गुणः स्यादपृक्ते हलादौ पिति सार्वधातुके । वृद्ध्यपवादः । और्णोत् । और्णोः । ऊर्णुयात् । ऊर्णुयाः । इह वृद्धिर्न । 'ङिच्च पिन्न' इति भाष्यात् । ऊर्णूयात् । ऊर्णविषीष्ट-ऊर्णुविषीष्ट। और्णुवीत् । और्णुविष्टाम् ।

२४४९ । उर्णोतेर्विभाषा । (७-२-६)

इडादौ सिचि परस्मैपदे परे वा वृद्धिः स्यात् । पक्षे गुणः । और्णावीत् । और्णाविष्टाम् । और्णाविषुः । और्णवीत् । द्यु १०४० अभिगमने ।


इति णत्वम् । द्वितीयस्य तु ‘अट्कुप्वाङ्’ इति न णत्वम्, 'उभौ साभ्यासस्य' इति लिङ्गादेव । विभाषोर्णोः ॥ 'गाड् कुटादिभ्यः' इत्यतो डिदित्यनुवर्तते 'विज इट्' इत्यत इडिति इत्यभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । इडादीति ॥ ऊर्णुनुविथेति ॥ ङित्त्वपक्षे गुणाभावादुवङ् । ऊर्णुनविथेति ॥ डित्त्वाभावपक्षे गुणः । ऊर्णुनुवथुः । ऊर्णुनुव । ऊर्णुनाव-ऊर्णुनव । लुटि तासि इटि डित्त्वविकल्पं मत्वा आह । ऊर्णविता-ऊर्णुवितेति ॥ ऊर्णविष्यति-ऊर्णुविष्यति । ऊर्णविष्यते-ऊर्णुविष्यते । लडि और्णु त् इति स्थिते 'ऊर्णोतेर्विभाषा' इति वृद्धिविकल्पे गुणे च प्राप्ते । गुणोऽपृक्ते ॥ 'ऊर्णोतेर्विभाषा' इत्यत ऊर्णोतेरिति 'नाभ्यस्तस्य' इत्यतः पिति सार्वधातुके इति 'उतो वृद्धिः' इत्यतो हलीति चानुवर्तते । तदाह । ऊर्णोतेरित्यादि । वृध्द्यपवादः इति ॥ 'ऊर्णोतेर्विभाषा' इति वृद्धिविकल्पस्यापवाद इत्यर्थः । ऊर्णुयात् इत्यत्र 'विभाषोर्णोः' इति वृद्धिविकल्पमाशङ्क्याह । इह वृद्धिर्नेति । भाष्यादिति ॥ तथा च यासुटो ङित्त्वेन पित्त्वाभावान्न वृद्धिविकल्प इति भावः । नचैव सति गुणनिषेधोऽपि न स्यादिति शङ्क्यम् । विशेषविहितेन यासुटो ङित्त्वेन ङिच्च पिन्नेति पित्त्वप्रयुक्तङित्त्वनिषेधस्य बाध इति ‘यु मिश्रणे' इति धातावेवोक्तत्वादिति भावः । परस्मैपदे आशीर्लिङ्याह । ऊर्णूयादिति ॥ अकृत्सार्वधातुकयोरिति दीर्घः । ऊर्णूयास्तामित्यादि । आत्मनेपदे लिङ्याह । ऊर्णविषीष्ट -ऊर्णुविषीष्टेति ॥ ‘विभाषोर्णोः' इति ङित्त्वविकल्प इति भावः । लुडि परस्मैपदे और्णु ईत् इति स्थिते ‘विभाषोर्णोः’ इति ङित्त्वपक्षे गुणाभावे उवडि रूपमाह । और्णुवीदिति ॥ ङित्त्वाभावपक्षे गुणे नित्य प्राप्ते । ऊर्णोतेर्विभाषा ॥ ‘सिचि वृद्धिः परस्मैपदेषु' इत्यनुवर्तते, 'नेटि' इत्यतः इटीति च । तदाह । इडादाविति ॥ आत्मनेपदे तु लुडि और्णुविष्ट-और्णविष्ट । और्णविष्यत्-और्णुविष्यत् । और्णविष्यत-और्णुविष्यत । द्यु आभिगमने इति ॥ अनिट् । द्यौतीति ॥