पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१९७
बालमनोरमा ।

ब्रवीतु-ब्रूतात् । 'ङिच्च पिन्न' इत्यपित्त्वादीण्न । ब्रवाणि । ब्रवै । ब्रूयात् । उच्यात् । 'अस्यतिवक्ति-' (सू २४३८) इत्यङ् ।

२४५४ । वच उम् । (७-४-२०)

अङि परे । अवोचत् । अवोचत ।

अथ शास्यन्ताः परस्मैपदिनः । इङ् त्वात्मनेपदी । इण् १०४५ गतौ । एति । इतः ।

२४५५ । इणो यण् । (६-४-८१)

अजादौ प्रत्यये परे । इयङोऽपवादः । यन्ति । इयाय ।

२४५६ । दीर्घ इणः किति । (७-४-६९)


वक्ष्यते । ब्रवीतु-ब्रूतादिति ॥ ननु तिबादेशस्य तातड पित्त्वात् ‘ब्रूव ईट्’ इति ईडागमः स्यादित्यत आह । ङिच्चेति ॥ ब्रूताम् । ब्रुवन्तु । ब्रूहि । ब्रूतात् । ब्रूतम् । ब्रूत । ब्रवाणीति ॥ आट पित्त्वेन डित्त्वाभावात् न गुणनिषेध इति भावः । ब्रवाव । ब्रवाम । ब्रूताम् । ब्रूष्व । ब्रुवाथाम् । ब्रूध्वमिति सिद्धवत्कृत्य आह । ब्रवै इति ॥ आटः पित्त्वेन डित्त्वाभावाद्गुण । ब्रवावहै । ब्रवामहै । लडि अब्रवीत् । अब्रूताम् । अब्रुवन् । अब्रवीः । अब्रूतम् । अब्रूत । अब्रवम् । अब्रूव । अब्रूम । विधिलिङ्याह । ब्रूयादिति ॥ ब्रूयातामित्यादि । आशीर्लिङ्याह । उच्यादिति ॥ वच्यादेशे 'वचिस्वपि' इति सम्प्रसारणमिति भावः । उच्यास्ताम् इत्यादि । आत्मनेपदे आशीर्लिङि वक्षीष्ट । वक्षीयास्ताम् इत्यादि । अकित्त्वान्न सम्प्रसारणम् । लुडि सिचि वच्यादेशे अवच् स् त् इति स्थिते आह । अस्यतीति ॥ अवच् अ त् इति स्थिते । वच उम् ॥ शेषपूरणेन सूत्र व्याचष्टे । अङि परे इति ॥ 'ॠदृशो डि’ इत्यतस्तदनुवृत्तेरिति भावः । मित्त्वादन्त्यादच परः । आद्गुणः । तदाह । अवोचदिति ॥ अवक्ष्यत् । अवक्ष्यत । इङ्त्विति ॥ ‘इङ् अध्ययने' इति धातुस्तु ङित्त्वादात्मनेपदीत्यर्थः । इण् गताविति ॥ 'इणो यण्' इत्यादौ विशेषणार्थो णकारः । एतीति ॥ ‘शपो लुकि तिपः पित्त्वेन ङित्त्वाभावाद्गुणः । इतः इति ॥ अपित्त्वेन ङित्त्वान्न गुणः । इ अन्तीत्यत्र ङित्त्वाद्गुणाभावे इयडि प्राप्ते । इणो यण् ॥ 'अचि श्नुधातुः' इत्यतः अचीत्यनुवृत्तस्य अङ्गाधिकारलब्धाङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिरित्यभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । अजादौ प्रत्यये परे इति । इयङोऽपवादः इति ॥ इयडि प्राप्ते एव तदारम्भादिति भावः। गुणवृद्धौ तु परत्वादस्य बाधकौ । यथा अयनम्, आयकः । यन्तीति ॥ एषि । इथः । इथ । एमि । इवः । इमः । इयायेति ॥ द्वित्वे सति उत्तरखण्डवृद्धौ आयादेशे 'अभ्यासस्यासवर्णे' इति इयङ् । अतुसि तु द्वित्वे कित्त्वाद्गुणाभावे इ इ अतुस् इति स्थिते ‘इणो यण्’ इत्युत्तरखण्डस्य यणि इयतुरितिस्थिते । दीर्घ इणः ॥ ‘अत्र लोपः’ इत्यतः अभ्यासस्येति ‘व्यथो लिटि’ इत्यतो लिटीति चानुवर्तते । तदाह ।