पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२११

एतत् पृष्ठम् परिष्कृतम् अस्ति
२००
[अदादि
सिध्दान्तकौमुदीसहिता

प्राप्तः । 'णेरध्ययने वृत्तम्' (सू ३०६६) इति निर्देशान्न भवति । अध्यैत । परत्वादियङ् । तत आट् वृद्धिः । अध्यैयाताम् । अध्यैयत । अध्यैयि । अध्यैवहि । अध्यैमहि । अधीयीत । अधीयीयाताम् । अधीयीध्वम् । अधीयीय । अध्येषीष्ट ।

२४६० । विभाषा लुङ्लृङोः । (२-४-५०)

इङो गाङ् वा स्यात् ।

२४६१ । गाङ्कुटादिभ्योऽञ्णिन्ङित् । (१-२-१)


धातुकार्धधातुकयोः' इति गुणम्बाधित्वा सवर्णदीर्घः प्राप्तो न भवतीत्यन्वयः । कुत इत्यत आह । णेरध्द्ययने वृत्तमिति निर्देशादिति ॥ अन्यथा ल्युटि अनादेशे अधि इ अन इति स्थिते पूर्व सवर्णदीर्घे ततो गुणायादेशयोः कृतयोः अधयनमिति प्रसङ्गादिति भावः । वस्तुतस्तु पूर्व धातुः साधनेन युज्यते इत्येव भाष्यसम्मतम् । पूर्व धातुरुपसर्गेण, नैतत्सारमिति भाष्योक्तेरित्यन्यत्र विस्तर । अध्द्ययावहै । अध्द्ययामहै । लङ्याह । अध्द्यैतेति ॥ अधि आ इ त इति स्थिते 'आटश्च' इति वृद्धौ यणिति भावः । अधि इ आतामिति स्थिते आटि वृद्धौ यणि अध्यैतामिति प्राप्ते आह । परत्वादियङिति ॥ आटः प्रागेव परत्वादिकारस्य इयडि तत आटि वृद्धौ यणि अध्यैयातामिति रूपमित्यर्थः । अध्यैयतेति ॥ 'आत्मनेपदेष्वनतः इत्यदादेशः । अध्यैथाः । अध्यैयाथाम् । अध्यैध्वम् इति सिद्धवत्कृत्याह । अध्यैयि । अध्यैवहि । अध्यैमहीति ॥ विधिलिङ्याह । अधीयीतेति ॥ अधि इ त इति स्थिते सीयुटि सुटि सलोपे यलोपे अधि इ ईत इति स्थिते धातुभूतस्य इकारस्य इयडि सवर्णदीर्घ इति भावः । अधीयीयातामिति ॥ अधि इ आतामिति स्थिते सीयुटि सुटि सलोपे अधि इ ईयातामिति स्थिते धातुभूतइकारस्य इयडि सवर्णदीर्घ इति भावः । झस्य रन्भावे सीयुटि सकारयकारलोपे अधि इ ई रन् इति स्थिते धातुभूतस्य इकारस्य इयडि सवर्णदीर्घे अधीयीरन्, अधीयीथाः, अधीयीयाथाम्, इति सिद्धवत्कृत्य आह । अधीयीध्वमिति ॥ ध्वमि सीयुिटि सलोपे यलोपे अधि इ ई ध्वमिति स्थिते इड इयडि सवर्णदीर्घ इति भावः । अधीयीयेति ॥ इटोऽत् सीयुट् सलोपः । अधि इ ईय इति स्थिते इड इयडि सवर्णदीर्घ इति भावः । अधीयीवहि । अधीयीमहि । आशीर्लिङ्याह । अध्येषीष्टेति ॥ सीयुटि गुणः यण् षत्वम् । अध्येषीयास्ताम् । अध्येषीरन् । अध्येषीष्ठाः । अध्येषीयास्थाम् । अध्येषीढ्वम् । अध्येषयि । अध्येषीवहि । अध्येषीमहि । लुडि आटि अधि आ इ त इति स्थिते । विभाषा लुङ्लृङोः ॥ शेषम्पूरयति । इङो गाङ् वा स्यादिति ॥ ‘इङश्च' इत्यतो ‘गाङ् लिटि’ इत्यतश्च तदनुवृत्तेरिति भावः । सिचि अधि अ गा स् त इति स्थिते । गाङ्कुटादिभ्यो ॥ ञ्च ण्च ञ्णौ तौ इतौ यस्य सः ञ्णित् सः न भवतीत्यञ्णित् गाङ् च कुटादयश्चेति द्वन्द्वात्पञ्चमी । गाङिति ङकारानुबन्धात् 'इणो गा लुडि’