पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२१३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०२
[अदादि
सिध्दान्तकौमुदीसहिता

केचित्तु आर्धधातुकाधिकारोक्तस्यैवातिदेशमाहुः । तन्मते यण्न । तथा च भट्टि: -- 'ससीतयो राघवयोरधीयन्' इति । वी १०४८ गतिव्याप्तिप्रजनकान्त्यसनखादनेषु । प्रजनं गर्भग्रहणम् । असनं क्षेपणं । वेति । वीतः । वियन्ति । वेषि । वेमि । वीहि । अवेत् । अवीताम् । अवियन् । अडागमे सत्यनेकाच्त्वाद्यणिति केचित् । अव्यन् । अत्र ईकारोऽपि धात्वन्तरं प्रश्लिष्यते । एति । ईत: । इयन्ति । ईयात् । ऐषीत् । या १०४९ प्रापणे । प्रापणमिह गतिः । प्रणियाति । यातः । यान्ति ।

२४६३ । लङः शाकटायनस्यैव । (३-४-१११)


अध्येष्यति । अध्येतु-अधीतात् । अधीताम् । अधियन्तु । अधीहि-अधीतात् । अधीतम् । अधीत । अध्ययानि । अध्ययाव । अध्ययाम । अध्यैत् । अध्यैताम् । अध्यायन् । अध्यैः । अध्यैतम् । अध्यैत । अध्यायम् । अध्यैव । अध्यैम । इति सिद्धवत्कृत्य लुङ्याह । अध्यगादिति ॥ इण्वत्त्वात् 'इणो गा लुङि’ इति गादेशे ‘गातिस्था’ इति सिचो लुका लुप्तत्वात् 'घुमास्था’ इति ईत्त्वन्न । अध्यगाताम् । अध्यगाम् । अध्यगाव । अध्यैष्यत् । केचित्त्विति ॥ आर्धधातुके इत्यधिकारे 'इणो गा लुङि' इति सूत्रे एतद्वार्तिकपाठस्य भाष्ये दर्शनात्तदधिकारोक्तानामेव कार्याणामुपस्थितत्वादिति भावः । तन्मते यण् नेति ॥ 'इणो यण्' इत्यस्य आर्धधातुकाधिकारस्थत्वाभावान्नातिदेश इत्यर्थः । तेन झोऽन्तादेशे इयङि सवर्णदीर्घे अधीयन्तीत्याद्यूह्यम् । राघवयोरधीयन्निति ॥ 'अधीगर्थ' इति षष्ठी । राघवौ स्मरन्नित्यर्थः । अधिपूर्वात् इग्धातोर्लटः शतरि शपो लुकि इकारस्य इयङि सवर्णदीर्घे अधीयन्निति शत्रन्तात् सुबुत्पत्तौ सौ रूपम् । वी गतीति ॥ 'अजेर्व्यघञपोः' इति सूत्रभाष्यरीत्या अस्य आर्धधातुके नास्ति प्रयोग इति शब्देन्दुशेखरे स्थितम् । वियन्तीति ॥ एकाच्त्वाद्यणभावादियङिति भावः । लोटि वेतु-वीतात् । वीताम् । वियन्तु । वीतम् । वीतेति सिद्धवत्कृत्य आह । वीहीति ॥ हेरपित्त्वेन ङित्त्वान्न गुण इति भावः । वयानि । वयाव । वयाम । लङ्याह । अवेदिति ॥ अवियन्निति ॥ वी अन्निति स्थिते परत्वादडागमात् प्रागियडि कृते अडागम इति भावः । मतान्तरमाह । अडागमे सतीति ॥ लावस्थायामडिति पक्षे इयडम्बाधित्वा अनेकाच्त्वात् यणि अव्यन्निति केचिदाहुरित्यर्थः । केचिदित्यस्वरस सूचयति । तद्वीजन्तु कृतेऽप्यटि यणि कर्तव्ये आभीयतया अट असिध्दत्वादनेकाच्त्वाभावाद्यणभावादियडेवोचित इति शब्देन्दुशेखरे विस्तरः । अत्रेति ॥ वी ई इति सवर्णदीर्घे वी गतीति निर्देश इति भावः । ईयादिति ॥ विधिलिङि आशीर्लिङि च रूपमिदं समानम् । ‘स्कोः' इति सलोपः । तत्र विधिलिङि ईयातामित्यादि । आशिषि तु ईयास्तामित्यादि इति विशेषः । ऐषीदिति ॥ सिचि वृद्धिः । या प्रापणे इति ॥ ननु गच्छतीत्यर्थे यातीति कथमित्यत आह । प्रापणमिह गतिरिति ॥ णिजर्थस्त्वविवक्षित इति भावः । प्रणियातीति ॥ 'नेर्गद’ इति णत्वम् । ययौ । याता । यास्यति । यातु । अयात् । अयाताम् । लङः शाकटायनस्यैव ॥ ‘झेर्जुस्'