वुग्युटावुवड्यणोः सिद्धौ वक्तव्यौ । बभूव । बभूवतुः।बभूवुः।
२१८४ । आर्धधातुकस्येड्वलादेः । (७-२-३५)
वलादेरार्धधातुकस्येडागमः स्यान् । बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव । बभूविम ।
२१८ ५ । अनद्यतने लुट् । (३-३-१५)
भविष्यत्यनद्यतनेऽर्थे धातोर्लुट् स्यात् ।
२१८६ । स्यतासी लृलुटोः । (३-१-३३)
‘लृ’ इति लङ्लटोर्ग्रहणम् । धातोः स्यतासी एतौ प्रत्ययौ स्तो लृल्लुटो: परतः । शबाद्यपदवादः ।
त्युवडि आभीये कर्तव्ये असिद्धतया ऊकारस्योवडि लघूपधगुणे बभोवेतिX प्राप्ते सतात्यर्थः ।
वुग्विधिस्तु गुणवृद्धिबाधकत्वेन चरितार्थ इति भाव । वुग्युटावुवङ्यणोगिति ॥ यथासXव्यमन्वयः ।
अतुसादेशे वुगादि पूर्ववत् । सकारस्य रुत्वविसर्गौ । बभूवुरिति ॥ झेरुसादेशे वुगादि पूर्ववत् । सिपस्थलि बभू थ इति स्थिते । आर्धधातुकस्येति ॥ नेड्वशिकृतीत्यस्मादनुबृत्यैव
सिद्धेरिहेइग्रहणन्नकार्यमिति नेड्वशाति सूत्रभाष्ये प्रत्याग्व्यातम् । आर्धधातुकस्येति किम् ।
जुगुग्सति । अत्र गुप्तिज किद्भयः इति सनो धातोरित्यधिकृत्य विहतत्वाभावान्नार्धधातुकत्व ।
बभूविथेति ॥ सिपस्थलि तस्य इडागमे बुगादि पूर्ववत् । बभूवथुरिति । थसः अथुसाXदेशे वुगादि पूर्ववत् । सकारस्य रुत्वाविसर्गौ । बभूवेति ॥ मद्ध्यमपुरुषबहुवचनस्य अकारस्सर्वादेश इति परस्मैपदानां णलतुसित्यत्रोक्तम्। वुगादि पूर्ववत् । बभूवेति ॥ मिपो णलि वुगादि पूर्ववत् । बभूविवेति ॥वसो वादेशे वलादित्वादिडागमे वुगादि पूर्ववत् । नचात्र श्र्युकः कितीतीडागमनिषेधश्शङ्क्यः । कृसृभृवृस्तुद्रुस्रुश्रुवो लिटाति क्र्यादिनियमादिटसिद्धेः ।
बभूविमेति ॥ मसो मादेशे इडागमे बुगादि पूर्ववत् ॥ इनि लिट्प्रक्रिया ॥
अनद्यतन इति ॥ धातोरित्याधिकृतम् । भविष्यति गम्यादयः इत्यतः भविष्यतांXत्यनुवर्तते । भविष्यत्यनद्यतन इति धात्वर्थेऽन्वेति । तदाह । भविष्यत्यनद्यतन इति ॥ अनद्यतनशब्दस्तु परोक्षे लिडित्यत्र व्यारव्यातः । उटावितौ । लुटस्तिबादयः । भू ति इति स्थिते कर्तरि शबिति शपि प्राप्ते । स्यतासी इति॥ स्यश्च तासिश्चेति द्वन्द्वान् प्रथमाद्विवचनम्। तासेरिकार उच्चारणार्थः । लृ लुट् अनयोर्द्वन्द्वात् सप्तमीद्विवचनम् । ग्रहणमिति ॥ लृस्वरूपस्योभयत्राविशि-