पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१५
बालमनोरमा ।


२१८७ । आर्धधातुकं शेषः । (३-४-११४)

तिङशिद्भ्योऽन्यो धात्वधिकारोक्तः प्रत्यय एतत्संज्ञः स्यात् । इट् ।

२१८८ । लुटः प्रथमस्य डारौरसः । ( २-४-८५

‘डा’ ‘रौ’ ‘रस्’ एते क्रमात्स्युः । [डित्वसामर्त्यादभस्यापि टेर्लोपः ।

२१८९ । पुगान्तलघूपधस्य च । (७-३-८६)

पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः स्यात्सार्वधातुकार्धधातुकयोः । येन नाव्यवधानं तेन व्यवहितेऽपि । वचनप्रामाण्यात् । तेन भिनत्तीत्यादावनेकव्यवहितस्येको न गुणः । ‘भवित्’ ‘आ’ अत्रेको गुणे प्राप्ते ।


ष्टत्वादिति भावः। धातोरित्यधिकृत तदाह। धातोरेिति ॥ भू तास् ति इति स्थिते। आर्धधातुकमिति ॥ तिङ्शित्सार्वधातुकामति पूर्वसूत्रोपात्ततिड्शिदन्यश्शेषः तदाह । तिङ्शिद्भ्योऽन्य इति । विहित इति ॥ धातोरित्यधिकृतम् विहितविशेषणमाश्रीयत इति भावः । एवञ्च जुगुग्सतीत्यादौ गुप्तिज् किद्भ्य इत्यादि विहितसनादीनां धातोरित्युच्चार्य विहितत्वाभावेन आर्धधातुकत्वाभावादिडागमो न भवति । एतत्संज्ञस्यादिति ॥ आर्धधातुकसज्ञक इत्यर्थः । इडिति ॥ ताम् प्रत्ययस्योक्तसूत्रेणार्धधातुकत्वात् स्वतो वलादित्वाच्च आर्धधातुकस्येड्वलादेरितीडागम इत्यर्थः । भू इ तास् ति इति स्थिते । ऊकारस्य गुणे अवादेशे च भविता स् इति स्थिते । लुटः प्रथमस्येति ॥ डा रौ रस् एषां द्वन्द्वात् प्रथमाबहुवचनम्। लुट इति स्थानषष्ठी। लुडादेशस्य प्रथमपुरुषस्यत्यर्थः। क्रमादिति ॥ यथासख्यलभ्यम्। ननु परस्मैपदस्य त्रयः प्रथमाः आत्मनेपदस्य च त्रयः प्रथमा इति स्थानिनः षट् आदेशास्तु त्रय इति कथं यथासख्यमिति चेन्न । डाच रौच रस् चेति कृतद्वन्द्वाना डारौरसश्च डारौरसश्चेति एकशेषमाश्रित्य भाष्ये समाहितत्वात् । डाभावस्य चादेशत्वात् प्राक् प्रत्ययत्वाभावेन चुटू इत्यस्याप्रवृत्या सर्वादेशत्वम् । सति च तस्मिन् प्रत्ययत्वाच्चुटू इति टकारस्येत्सज्ञेति भाष्ये स्पष्टम् । एवच भू ता स आ इति स्थिते प्रक्रिया दर्शयति । डित्वसामर्थ्यादिति ॥ डाभावस्य कप्रत्ययावधिषु स्वादिष्वनन्तभूतत्वेन तस्मिन् परे भत्वाभावेऽपि डित्वसामर्थ्यात् टेरिति टिलोप इत्यर्थः । तथाच भवित् आ इति स्थिते । पुगन्तेति ॥ मिदेर्गुण इत्यतः गुण इत्यनुवर्तते । अङ्गस्येत्यधिकृतमवयवषष्ठ्यन्तमाश्रीयते । पुगन्तलघूपधस्येति तद्विशेषणम् । पुक् अन्तो यस्य तत् पुगन्तम् । लघ्वी उपधा यस्य तल्लघूपधम् । पुगन्तञ्च लघूपधश्चेति समाहारद्वन्द्वात् षष्ठी । इको गुणवृद्धी इति परिभाषया इक इत्युपस्थित स्थानषष्ठ्यन्तमाश्रीयते । तदाह । पुगन्तस्येत्यादिना । अंगस्येक इति ॥ अङ्गावयवस्येत्यर्थः । द्वेष्टि द्वेष्टा इत्याद्युदाहरणम् । नन्वत्राङ्गावयवस्येकः तदुपरितनहला व्यवधानात् सार्वधातुकपरत्वाभावात् कथमिह इको गुण