पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१९
बालमनोरमा ।


२१९८ । लोटो लङ्वत । (३-४-८५)

लोटो लङ इव कार्ये स्यात् । तेन तामादयः सलोपश्च । तथा हि ।

२१९९ । तस्थस्थमिपां तांतंतामः । (३-४-१० १)

ङिन्तश्चतुर्णामेपां तामादयः क्रमात्स्युः ।

२२०० । नित्यं ङितः । (३-४-९९ )

सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः स्यात् । । ‘अलोऽन्त्यस्य’ (४२) इति सस्य लोपः । भवताम् । भवन्तु ।

२२०११ । सेर्ह्यपिच्च । (३-४-८७)


तदुक्त भाष्ये । डित्त्वस्य सावकाशत्वाद्विप्रतिषेधात्तातड् सर्वादेश इत्यभिधाय विस्तरभिया विरम्यते । भवतादिति ॥ आशिषि लोटस्तिपि शपि गुणे अवादेशे उकार तोस्तातड् सर्वादेश । डकारइत् । द्वितीयतकारादकारउच्चारणार्थ । लोटो लङ्वदिति ॥ लड इव लङ्वत् । तत्र तस्येवेति षष्ठ्यन्ताद्वति । तदाह । लोटो लङ इवेति ॥ ननु तर्हि लुड लड् लृड्क्ष्वडुदात्त इत्यडागमोऽपि स्यादित्यत आह । तेनेति ॥ लड इति स्थानषष्ठ्यन्तात् वतिप्रत्ययाश्रयणेनेत्यर्थ । अडागमस्तु न लडो विधीयते । किन्तु लडि अङ्गस्येति भावः । केन तामादयः । केन वा सलोप इत्यत आह । तथाहीति ॥ तामादयस्सलोपश्च यथा ज्ञायन्ते तथा स्पष्टमुच्यन्त इत्यर्थः । तस्थ इति ॥ तस् थस् थ मिप् , एषा द्वन्द्वात् षष्ठीबहुवचनम् । ताम् तम् त अम्, एषा द्वन्द्वात् प्रथमाबहुवचनम् । नित्य डित इत्यस्मात् डित इत्यनुवर्तते । तदाह । ङिन्तश्चतुर्णामिति ॥ डितो लकारस्य आदेशभूतानामित्यर्थः । क्रमादिति ॥ यथासख्यसूत्रलभ्यमिदम् । नित्यड्ङित इति ॥ उत्तमपुरुषएवास्य सूत्रस्य प्रयोजन । प्रसङ्गादिहोपन्यस्तम् । स उत्तमस्येति सूत्रमनुवर्तते । तत्र स इति षष्ठ्यन्तम् । तेन उत्तमो विशेष्यते । तदन्तविधिः । इतश्च लोप इत्यतो लोप इत्यनुवर्तते । तदाह । सकारान्तस्य ङिदुत्तमस्येति ॥ डितो लकारस्य य आदेशः उत्तमपुरुषः तस्येत्यर्थः । वैतोन्यत्रेत्यस्माद्वाग्रहणानुवृत्तिनिवृत्तये नित्यग्रहणम् । अलोऽन्त्यस्येत्यन्त्यलोपः। भवतामिति ॥ लोटस्तस् । तस्य तामादेशः । शप् गुणावादेशौ। न च तामादेशस्य सर्वादेशत्वात् प्राक् विभक्तित्वाभावान्न विभक्तौ तु स्मा इति निषेधाभावात् मकारस्येत्संज्ञा शंक्या । सयोगान्तलोपेन मकारान्तरप्रश्लेषेण उपदेशेऽन्त्यत्वाभावात् । भवन्त्विति ॥ लोटो झेः अन्तादेशे शपि गुणे अवादेशे द्वयोरकारयो पररूपे एरुरितीकारस्य उकारे भवन्त्विति रूपम् । अथ लोटः सिपि शपि गुणावादेशयोः भव सि इति स्थिते । सेर्ह्यीति ॥ हि इति लुप्तप्रथमाकम् । लोटो लड्वदित्यतो लोट इत्यनुवर्तते । तदाह ।