पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२५
बालमनोरमा

२२१३ । झेर्जुस् । (३-४-१०८)

लिडे झेर्जुस् स्यात् । ज इत् ।

२२१ ४ । उस्यपदान्तात् । (६-१-९६)

अपदान्तादवर्णादुसि परे पररूपमेकादेशः स्यात् । इति प्राप्ते । परत्वान्नित्यत्वाच्च ‘अतो येय:’ (२२१२) इति प्राञ्चः । यद्यप्यन्तरङ्गत्वात्पररूपं न्याय्यं । तथाति ‘यास्' इत्येतस्य ‘इय्’ इति व्याख्येयम् । एवं च सलोपस्यापवाद


इत्यस्य इयादेशे आहुणे यलोपः । अथ लिडो झेर्झोन्त इति प्राप्ते । झेर्जुसिति । लिडस्सीयुडिल्यतो लिड इत्यनुवर्तते । तदाह । लिङो झेरिति ॥ अनेकाल्त्वात्सर्वादेशः । ज इदिति ॥ जुसः स्थानिवत्वेन प्रत्ययत्वात् चुट् इति जकार इत्संज्ञक इत्यर्थः । उसि शपि गुणे अवादेशे यासुटि सकारलोपे भव या उसिति स्थिते इयादेश बाधित्वा पररूप प्रवृत्तिं शङ्कितुमाह । उसीति ॥ एकः पूर्वपरयोरित्यधिकृतम् । आद्रण इत्यस्मादादित्यनुवर्तते । एडि पररूपमित्यस्मात्पररूपमिति । तदाह । अवर्णादुसीति ॥ उसि यः अच् उकारः तस्मिन् परत इत्यर्थ । इको यणचीत्यतः अचीत्यनुवृत्तेः । यद्यपि उसः कृत्स्नस्याकारस्य च उसित्येकादेशेऽपि रूपन्तुल्यम् । तथापि अकस्सवर्णे दीर्घ इत्यादावुत्तरत्राचीत्यावश्यकमवाग्यनुवर्तत इति बोद्ध्यम् । भिन्द्युरित्याद्युदाहरणम् । इति प्राप्त इति ॥ भव या उसित्यत्राकारस्योकारस्यचाद्गुणम्बाधित्वा एकस्मिन्नुकारे पररूपे प्राप्ते सतीत्यर्थः । सति च पररूपे पा इत्यस्याभावात् इय् न स्यादिति मन्यते । परत्वादिति ॥ पररूपापेक्षया इयादेशः परः नित्यश्च । अकृते कृते च पररूपे प्रवृत्तेः । कृते पररूपे य इत्यस्यैकदेशविकृतन्यायेन एकादेशस्य पूर्वान्तवत्वेन वा इयादेशस्य निर्वाधत्वात् । ततश्च पररूपम्बाधित्वा इयादेशे भवेयुरिति रूपमिति प्राचीनाः मन्यन्त इत्यर्थः । ननु पररूपमङ्गाधिकारस्थत्वाभावात् अङ्गानपेक्षत्वात् अन्तरङ्गं । इयादेशस्तु आङ्गत्वात् प्रकृतिप्रत्ययोभयसापेक्षत्वात् बहिरङ्गम् । ततश्च परान्नित्यादपीयादेशात् पररूपस्यान्तरङ्गतया बलवत्वात् पररूपमेव इह स्यादिति शङ्कते। यद्यपीति ॥ परिहरति । तथापीति ॥ अत:यास् इयः इति पदच्छेदः । यासिति लुप्तषष्टीकं पदम् । ततश्च अतः परस्य यासित्येतस्य इय् स्यादिति व्याख्येयमित्यर्थः । ननु लिडस्सलोपोऽनन्त्यस्येति सकारस्य लोपः इयादेशम्बाधित्वा नित्यत्वात् प्राप्रोतीति ततश्च यास् इत्यस्य इय् इति कथमित्यत आह । एवञ्चेति ॥ यासिति सकारान्तस्य इयादेशविधिसामर्थ्यादेव सकारलोप बाधित्वा प्रागेव यासिति सकारान्तस्य इयादेशो भवतीत्यर्थः । तथा च सकारावस्थायां अवर्णात्परत्वाभावेन पररूपस्याप्रवृत्तिरिति भावः । ननु यदि या स् इयः इति च्छेदः, तदा सकारस्य रुत्वे,भोभगो इति यत्वे, लोपश्शाकल्यस्येति तस्य लोपे, अतो या इयः इति स्यात् । आद्गुणे कर्तव्ये यलोपस्यासिद्धत्वादित्यत आह ।