२२३४ । सार्वधातुकमपित् । (१-२-४)
अपित्सार्वधातुकं ङिद्वत्स्यात्
२२३५। आतो ङितः । (७-२-८१)
अतः परस्य डितामाकारस्य इय् स्यात् । एधेते । एधन्ते ।
२२३६ । थासः से । (३-४-८०
टितो लस्य थासः से स्यात् । एधसे । एधेथे । एधध्वे । ‘ अतो गुणे ’ (१९१) एधे । एधावहे । एधामहे ।
२२३७ । इजादेश्च गुरुमतोऽनृच्छः । (३-१-३६)
इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम्स्याल्लिटि । ‘आमो मकारस्य नेत्वम्’ । आस्कासोराम्विधानाज्ज्ञापकात् ।
शेषः । अत्रात्मनेपदशब्देन तदेव गृह्यते नत्वानोऽपि । तेन पचमानो यजमान इत्यादावेत्व नेति
भाष्ये स्पष्टम् । एधत इति ॥ अत्र तकारादकारस्य व्यपदेशिवद्भावेनान्त्यादित्वेन टित्वादे
त्वम् । अथ लटः प्रथमपुरुषद्विवचने आतामित्यादेशे टित आत्मनेपदानामिति आम एत्वे शपि
एध आते इति स्थिते डित्कार्य वक्ष्यन् डित्वमाह । सार्वधातुकमपिदिति ॥ गाङ्कुटा
दिभ्य इत्यतो डिदित्यनुवर्तते । अडितो डित्व वास्तव न सम्भवतीति डिद्वदिति लभ्यते ।
तदाह । ङिद्वदिति । आतो ङित इति ॥ डित इत्यवयवषष्ठी । अतो येय इत्यस्मात् अत
इति पञ्चम्यन्त, इय इति प्रथमान्त चानुवर्तते । यकारादकार उच्चारणार्थः । तदाह । अतः परस्येति ॥ डितामित्यनन्तर अवयवस्येति शेष । एधेते इति ॥ एध आते इति स्थिते, आकारस्य इय्, आद्गुण , लोपो व्योर्वलीति यकारलोपइति भावः । एधन्त इति ॥ लट. प्रथमपुरुषX
बहुवचने झादेशे परे शपि झकारस्य अन्तादेशे पररूपे टेरेत्वमिति भावः । अथ लटो मध्यमपुरुषैकवचने थासादेशे कृते टित आत्मनेपदानामित्येत्वे प्राप्ते । थासस्स इति ॥ से इति लुप्तप्रथमाकम् । एधस इति ॥ थासि शपि थासः सेभावः । एधेथ इति ॥ लटो मध्यमपुरुषद्विवचने
आथामादेशे शपि आम एत्वे आकारस्य इयादेशे गुणे यलोपे इति भावः । एधध्व इति ॥
लटो मध्यमपुरुषबहुवचने ध्वमादेशे शपि टेरेत्वे रूपम् । लट उत्तमपुरुषैकवचने इडादेशे एत्वे
शपि एध ए इति स्थिते प्रक्रियां दर्शयति । अतो गुणे इति ॥ अतो गुण इति पररूपे
वृध्यपवादे कृते सति एधे इति रूपमित्यर्थः । एधावह इति ॥ लट उत्तमपुरुषद्विवचने वहि
इत्यादेशे टेरेत्वे शपि अतो दीर्घः । एधामह इति ॥ लट उत्तमपुरुषबहुवचने महि इत्यादेशे टेरेत्वे शपि अतो दीर्घः । महिडिति डकारस्तङ्प्रत्याहारार्थः । इति लटप्रक्रिया ॥ इजादेरिति ॥ नञः ऋच्छ इत्यनेन समासे अनृच्छ इत्यस्मात् पञ्चमी । धातोरेकाच इत्यतो धातोरित्यनुवर्तते । कास्प्रत्ययादित्यतः आमिति लिटीति चानुवर्तते । तदाह। इजादि