पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
[भ्वादि
सिध्दान्तकौमुदीसहिता

द्ध्यते । पूर्ववदेवात्मनेपदं न तु तद्विपरीतमिति । तेन कर्तृगेऽपि फले इन्दांचकारेत्यादौ न तङ् ।

२२४१ । लिटस्तझयोरेशिरेच् । (३-४-८१)

लिडादेशयोस्तझयोः ‘एश्’ ‘इरेच्’ एतौ स्तः । एकारोच्चारणं ज्ञापकं ‘तङादेशानां टेरेत्वं न’ इति । तेन डारौरसां न । ‘कृ’ ‘ए’ इति स्थिते ।

२२४२ । असंयोगालिट्कित् । (१-२-५)

असंयोगात्परोऽपिल्लिट्कित्स्यात्।‘क्डिति च' (२२१७) इति निषेधात् ‘सार्वधातुकार्धधातुकयोः’ (२१६८) इति गुणो न । द्वित्वात्परत्वाद्यणि प्राप्ते ।

२२४३ । द्विर्वचनेऽचि । (१-१-५९)


आम्प्रत्ययवत् कृञोऽनुप्रयोगस्येत्येक वाक्य, पूर्ववत् कृञोऽनुप्रयोगस्येति अन्यद्वाक्यमिति, वाक्यद्वयं सम्पाद्यम् । तत्र पूर्ववदिति तृतीयान्ताद्वतिः । पूर्वेण पूर्वप्रयुक्तेन एधादिधातुना तुल्यमिल्यर्थः । तत्र वाक्यद्वयस्य समानार्थकत्वे वैयर्थ्यात् द्वितीयं वाक्य नियमार्थ सम्पद्यते । पर्ववदेव आत्मनेपद न तु तद्विपरीतमिति । एवञ्च पूर्ववाक्येन एधाञ्चक्रे इत्यादौ कृन्नः परगामिन्यपि क्रियाफले आत्मनेपदविधिः । द्वितीयवाक्येन तु इन्दाञ्चकारेत्यादौ कर्तृगामिनि क्रियाफले स्वरितञित इत्यात्मनेपदस्य निवृत्तिः फलति । तदाह । तेनेति ॥ द्वितीयवाक्येनेत्यर्थः । नतङिति ॥ न आत्मनेपदमित्यर्थः । एवञ्चानुप्रयुज्यमानात्कृञः लिटस्तडि प्रथमपुरुषैकवचने तादेशे एधाम् कृ त इति स्थिते । लिटस्नझयोरिति ॥ ननु लिटस्तझयोरिशिरिजिन्येवास्तु । आदेशयोरेकारोच्चारण व्यर्थम् । टित आत्मनेपदानामिन्येत्वेनैव सिद्धेरित्यत आह । एकारोञ्चारणमिति ॥ ज्ञापनस्य फलमाह । तेन डारौरसान्नेति ॥ डा रौ रम्X एषां लृडादेशभूतात्मनेपदादेशानां टेरेत्वन्नेत्यर्थः । वस्तुतस्तु परत्वादेत्वे कृते पुनः प्रमङ्गविज्ञानेन Xद्रादिषु कृतेषु लक्ष्ये लक्षणस्येति न्यायात् । एत्वं नेति ॥ लुटः प्रथमस्येति सूत्रभाष्ये स्पष्टम् । कृ ए इति स्थित इति॥ तकाराकारसंघातस्य एकारश्शित्वात् सर्वादेश इति भावः । असंयोगादिति । अपिदिति॥ सार्वधातुकमपिदित्यतस्तदनुवृत्तेरिति भावः । सार्वधातुकमपिदिति ॥ डित्वन्तु नात्र प्रवर्तते । लिडादेशानामार्धधातुकत्वादिति बोध्यम् । कित्वस्य फलमाह । क्डिति चेति । द्वित्वादिति ॥ कृ ए इति स्थिते । लिटि धातोरिति द्वित्वात परत्वात् इको यणचीति ऋकारस्य यणादेशे रेफे प्राप्ते सतीत्यर्थः । कृते तु यणि एकाXन्त्वाभावात्, लिटि धातोरिति द्वित्वम् न स्यादिति भावः। द्विर्वचन इति ॥ द्विरुच्यते येन परनिमित्तेन तत् द्विर्वचनं द्वित्वनिमित्तमिति यावत् । अचीत्यस्य विशेषणमिदम् । अचः परस्मिन्नित्यतः अच इनि स्थानिवदादेश इत्यतः आदेश इति न पदान्तेत्यतः नेति चानुवर्तते । द्विर्वचन इत्यावर्तते । एवञ्च द्वित्वे