क्रुशिर्दंशिदिशी दृश्मृश्रिश्रुश्लिश्विश्स्पृशः कृषिः ॥
त्विष् तुष् द्विष् दुष् पुष्य पिष् विष् शिष् शुष् श्लिष्यतयो घसिः ।
वसतिर्दह्दिहिदुहो नह्मिह्रुह्लिह्वहिस्तथा ॥
अनुदात्ता हलन्तेषु धातवो द्व्यधिकं शतम् ।
तुदादौ मतभेदेन स्थितौ यौ च चुरादिषु ॥
तृप्दृपी तौ वारयितुं श्यना निर्देश आदृतः ।
किं च ।
स्विद्यपद्यौ सिध्यबुध्यौ मन्यपुष्यश्लिषः श्यना ॥
वसि: शपा लुका यौतिर्निर्दिष्टोऽन्यनिवृत्तये ।
निजिर्विाजिर्शक्लृ इति सानुबन्धा अमी तथा ॥
विन्दतिश्चान्द्रदौर्गादेरिष्टो भाष्येऽपि दृश्यते ।
व्याघ्रभूत्यादयस्त्वेनं नेह पेठुरिति स्थितम् ॥
क्रुशिरित्यादि स्पृश इत्यन्तमेकम्पदम् । क्रुशिरिति दृशिरिति च इरितौ । दशीति इका निर्देशः । तथा च शान्तेषु क्रुश् दश् दिश् दृश् मृश् रिश् रुश् लिश् विश् स्पृश् इत्येते दश । कृषिरिति पृथक्पदम् । इका निर्देशः । त्विषीत्यादि श्लिष्यतयइत्यन्तमेकम्पदम् । पुष्येति श्यना निर्देशः । शिष्यतीति श्यन्विकरणस्य श्तिपा निर्देश । तथाच षान्तेषु कृष् त्विष् तुष् द्विष् दुष् (पुष् श्यन्विकरण) पिष् विष् शिष् शुष् (श्लिष् श्यन्विकरणः) इत्येकादश । घसिरिति पृथक्पदम् । इका निर्देश । वसतिरिति पृथक्पद श्तिपा निर्देश. । सान्तेषु घस् वस् इति द्वौ । दह् दिह् दुह् इति द्वन्द्व. । दिहीति इका निर्देशः । नह् मिह् रुह् लिह् इति समाहारद्वन्द्वः । वहि इति पृथक्पद इका निर्देश । तथेति चकारपर्यायः । हान्तेषु दह् दिह् दुह् नह् मिह् रुह् लिह् वह् इत्यष्टौ । ह्व्यधिकं शतमिति ॥ भाष्ये मृषेष्षान्तेषु पाठस्तु लेखकप्रमादकृत इति भावः । अथ षान्तेषु द्वयोः श्यना निर्देशस्य फलमाह । तुदादाविति ॥ यौ तृप्दृपी तुदादौ चुरादौ च मतान्तरीयत्वेन धातुपाठे स्थितौ तौ अनुदात्तभ्यो वारयितु श्यना निर्देशः अभ्युपगत इत्यर्थः । अत एव शेमुचादीनामिति सूत्रभाष्ये तृपितो दृपित इत्युदाहृत सङ्गच्छत इति भावः । किञ्चेति ॥ अन्यदपि वक्ष्यत इत्यर्थः । अन्यनिवृत्तय इति ॥ विकरणान्तरनिवृत्तय इत्यर्थ । तच्चाग्रे तदार्धधातुकनिरूपणे स्पष्टीभविष्यति । अमी तथेति ॥ उक्तानुबन्धरहितानां व्यावृत्तय इत्यर्थ । एतदपि तत्तदार्धधातुकनिरूपणे स्पष्टीभविष्यति । विन्दतिरिति ॥ विद्लृ लाभे इति तौदादिकः । चान्द्रदौर्गादिव्याकरणसम्मत । भाष्येऽपि दृश्यते इति ॥ विन्दिविद्यतीति तत्र पाठादिति भावः । एनमिति ॥ विन्दतिमित्यर्थः । नेह पेठुरिति ॥ तथापि भाष्यप्रामाण्यादस्यानि-