॥ श्रीरस्तु ॥
॥ उपोघ्दातः ॥
इह खलु निखिलकुवलयवलमानविद्वज्जनप्रथमपरिशीलतानां भाषावधूभावजिघ्राणां वाचां व्याकृतिमन्तरा तनुभृतामसुप्रतरविवरतया प्रथममस्याः परिशीलनमिति सर्वजनीनम् । तत्र च गताः काशिकावृत्तिप्रासादप्रक्रियाकौमुद्यादयो विरलविरलदृष्टाः । अत इदं त्रिमुनितन्त्रमध्यवसातुमध्वानमधिजिगमिषूणामयनमन्तरा सिध्दान्तकौमुद्या न किमपि । तञ्च प्रौढमनोरमाशब्दरत्नशेखरकौस्तुभादिबहुविधकृतिकर्मपरिकर्मितमपि सौलभ्येन तदधिगमनमुपलिप्सूनामनतिप्रौढमनसामतिसुकुमारधियाञ्च अनायासमवबोधयितुमनलम् ॥
अलम्भविष्णू स्त इदानीं सरलतरे तत्वबोधिनीबालमनोरमे एव । ययोः किल प्राचीकटन् प्रथमां प्रवचनलिखितपठितप्रचारितकादिभिः प्रथम एव नः प्रायोगिकाः प्राक्रियिकाः प्रवक्तारश्च । हन्त ! बहुचिराध्युषिततया वृध्दपरिपाटीमाटीकमानामपि तामनन्यामिवानुलालयन्त एव तत्तोऽपि अतिसरलपदन्यासामभिव्यक्तमधुरवागाकूताम् अतिरुचिरवर्णाम् आहितसुविशदप्रक्रियाम् अधिकौमुदि अखिलसहृदयाह्लादिनीमिमां बालमनोरमाम् उत्स्वप्रायितवर्त्मनापि नाधिगमयाञ्चकिरे शिव शिव ! नश्शाब्दिकाः केऽपि । अहह ! कालोऽयमगीर्वाणवाणीविलासीयः, अवसरोऽयमनतिकठिनग्रन्थनिर्मन्थनीयः, आस्थेदानीमधिजिगमिषूणामप्यनायासमापाततः प्रतीतिसाधनीयैवेति । अस्मिन्महत्यवर्णनीये अनिर्वर्णनीये अनाकर्णनीये च दुरवधिनि दुःखतौर्यत्रिके देववाग्देवदारिकायाः प्रक्रियाः क्व, प्रक्रुतयः क्व,धातवः क्व, भावाः क्व, पदव्यवस्थाः क्वेति सर्वतश्शिथिलशिथिलेष्वितिवृत्तेषु, पठितृषु पाठयितृषु