पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
४९
बालमनोरमा ।

स्पर्धिषीष्ट । अस्पर्धिष्ट । अस्पर्धिष्यत । 'गाधृ ४ प्रतिष्ठालिप्सयोर्ग्रन्थे च' । गाधते । जगाधे । 'बाधृ ५ लोडने' । लोडनं प्रतिघातः । बाधते । 'नाथृ ६ नाधृ ७ याच्ञोपतापैश्वर्याशीःषु' ।

आशिषि नाथ इति वाच्यम् ।

अस्याशिष्येवात्मनेपदं स्यात् । नाथते । अन्यत्र नाथति । नाधते | 'दध ८ धारणे' । दधते ।

२२६० । अत एकहल्मध्येऽनादेशादेर्लिटि । (६-४-१२०)

लिण्णिमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्याकारस्यैकारः स्यादभ्यासलोपश्च किति लिटि ।


लोटि एधिवद्रूपाणीति भावः । अस्पर्धतेति ॥ लडि एधिवद्रूपाणीति भाव. । हलादित्वादडेव । नत्वाडिति विशेष. । स्पर्धतेति ॥ विधिलिङि एधिवद्रूपाणि । स्पर्धिषीष्टेति ॥ आशिषि लिङि एधिवद्रूपाणि । अस्पर्धिष्टेति ॥ लुडि एधिवद्रूपाणि । अडागम इति विशेष. । नत्वाट् । अस्पर्धिष्यतेति ॥ लृडि एधिवद्रूपाणि । अडागमो विशेष । नत्वाट् । गाधृप्रतिष्ठेति ॥ चतुर्थान्तो धातुः । ॠकारो नाग्लोपिशास्वृदितामिति निषेधार्थ. । अजगाधत् । प्रतिष्ठा आधारे स्थिति । ग्रन्थ ग्रथनं रचनम् । जगाध इति ॥ लिटि द्वित्वादि । अभ्यासस्य ह्रस्वः चुत्व जश्त्वम् । बाधृ इति ॥ प्रतिघात पीडनम् । नाथृ, नाधृ इति ॥ द्वितीयचतुर्थान्तौ धातू । उपताप ज्वरप्रयुक्ता पीडा । आशीः आशासनम् । द्वितीयान्तस्य नाथृधातोर्विशेषमाह । आशिषि नाथ इति ॥ अत्र नाथ इति षष्ठी । अनुदात्तडित इत्यतः आत्मनेपदमित्यनुवर्तते । अनुदात्तेत्त्वादेव सिद्धे नियमार्थमिदं वार्तिकम् । तदाह । अस्या शिष्येवेति ॥ आशासनार्थवृत्तेरेवनाथधातोरात्मनेपदम् । याच्ञाद्यर्थवृत्तेस्तु शेषात् कर्तरीति परस्मैपदमेवेत्यर्थः । नाथत इति ॥ आशास्ते इत्यर्थ । अन्यत्रेति ॥ याच्ञाद्यर्थे विद्यमानस्येत्यर्थ । अथ चतुर्थान्तस्य नाधधातोरुदाहरति । नाधत इति । दधेति ॥ चतुर्थान्तोऽयम् । तस्य लटि एधिवद्रूपाणि सिद्धवत्कृत्य लिटस्तादेशे तस्यैशि द्वित्वे दध् दध् ए इति स्थिते । अत एकहल्मध्य इति ॥ आदेश. आदिर्यस्येति बहुव्रीहि. । अङ्गस्येत्यधिकृतम् अन्यपदार्थः । लिटीति परनिमित्तकसप्तमी अनादेशादेरित्यस्यैकदेशे आदेशेऽन्वेति । लिटि परे निमित्ते य आदेश. स आदिर्यस्य न भवति तथाविधस्याङ्गस्येति लभ्यते । अङ्गस्येत्यवयवषष्ठी । तथाच तथाविधाङ्गावयवस्यात इति लभ्यते । एकशब्दः असहायवाची । एके मुख्यान्यकेवला इत्यमरः । एकौ असयुक्तौ हलौ एकहलौ तयोर्मध्य एकहल्मध्य तत्र तिष्ठतीत्येकहल्मध्यस्थः । तस्येति विग्रहः । अत इत्यस्यैव विशेषणमिदम् । घ्वसोरेद्धावित्यत एदिति अभ्यासलोप इति चानुवर्तते । गमहनेत्यतः कितीत्यनुवर्तते नतु डितीति । लिडादेशाना डित्त्वासम्भवात् । लिटीत्येत्वविधौ परनिमित्तञ्च । आवृत्या उभयार्थलाभः । तदाह । लिण्णिमित्तेत्यादिना ॥