दन्त्यः केवलदन्त्योः न तु दन्तोष्ठजोऽपि । ष्वक्कादीनां पृथग्ग्रहणाज्ज्ञापकात् । 'ह्राद २६ अव्यक्ते शब्दे' । ह्रादते । जह्रादे । 'ह्रादी २७ सुरेव च' । चादव्यक्ते शब्दे । ह्रादते । 'स्वाद २८ आस्वादने' । 'पर्द २९ कुत्सिते शब्दे' । गुदरव इत्यर्थः । पर्दते । । 'यती ३० प्रयत्ने' । यतते । येते । 'युतृ ३१ जुतृ ३२ भासने' । योतते । युयुते । जोतते । जुजुते 'विथृ ३३ वेथृ ३४ याचने' । विविथे । विवेथे । 'श्रथि ३५ शैथिल्ये' । श्रन्थते । ग्रथि ३६ कौटिल्ये' । ग्रन्थते । 'कत्थ ३७ श्लाघायाम्' । कत्थते । एधादयोऽनुदात्तेतो गताः ।
अथाष्टात्रिंशत्तवर्गीयान्ताः परस्मैपदिनः । 'अत ३८ सातत्यगमने । अतति । 'अत आदेः' (२२४८) । आत । आततुः । आतुः । लुङि 'आतिस् 'ई' इति स्थिते ।
स्मिङ इति ॥ अपीति शेषः । ननु स्वृ शब्दोपतापयोरित्यादीनामपि दन्त्यवकारपरकत्वात् षोपदेशत्वं स्यादित्यत आह । दन्त्यः केवलदन्त्य इति ॥ कुत इत्यत आह । ष्वक्कादीनामिति ॥ अन्यथा दत्यपरकत्वादेव सिद्धे ष्वक्कादिग्रहण व्यर्थ स्यादिति भावः । यद्यपि ष्वक्कतिरत्र भाष्ये न दृश्यते तथापि सुब्धातुष्ठिवुष्वक्कतीनां षत्वप्रतिषेध इति वार्तिकात्तल्लाभ इति भाव. । ह्रादेति ॥ रेफवानयम् । अव्यक्तशब्दः अमनुष्यवाक् । जह्राद इति ॥ अभ्यासस्य ह्रस्वः चुत्वम् । ह्रादीति ॥ लकारवानयम् । श्वीदितोनिष्ठायामति इण्णिषेधार्थमीत्वम् । स्वादेति ॥ केवलदत्यपरकत्वाभावान्नायं षोपदेशः असिस्वदत् । पर्देति ॥ गुदरव इत्यर्थः । यतीति ॥ ईदित्वमिण्णिषेधार्थम् । येते इति ॥ अतएकहल्मध्य इत्येत्वाभ्यासलोपौ । युतृ जुतृ इति ॠदित्वम् नाग्लोपिशास्वृदितामित्याद्यर्थम् । योतत इति ॥ शपि लघूपधगुणः । युयुत इति ॥ असयोगादिति किन्वान्न गुणः । विथृवेथृ इति ॥ द्वितीयान्ताविमौ । ननु विथृ इत्येवास्तु । लघूपधगुणे सति वेथत इत्यस्याविशिष्टत्वादत्यत आह । विविथे, विवेथ इति ॥ वेथृधातोर्विवेथ इति रूपम् । विथृधातोस्तु असयोगादिति कित्वात् गुणाभावे विविथ इति रूपमिति भावः । श्रथीति ॥ द्वितीयान्तः शैथिल्यम् स्रसनम् । श्रन्थत इति इदित्वान्नुम् । ग्रथीति ॥ द्वितीयान्तः । कौटिल्यम् वक्रीभवनम् । ग्रन्थत इति ॥ इदित्वान्नुम् । कत्थेति ॥ अविद्यमानगुणज्ञापन श्लाघा । अथाष्टात्रिंशदिति ॥ अष्टौ च त्रिंशदिति द्वन्द्रः अष्टाधिकात्रिंशदिति वा । ह्व्यष्टनस्सङ्ख्यायामित्यात्वम् अष्टात्रंशदिति पाठे तु अष्टेति पृथक्पदम् । परस्मैपदिन इति ॥ अनुदात्तस्वरितञित्वाभावात्छेषात् कर्तरीति परस्मैपदिन एवेति भावः । अतेति ॥ सातत्यगमन सन्ततगमनम् । लिटि णलि द्वित्वे हलादिशेषे अ अत् अ इति स्थिते पररूपे प्राप्ते आह । अत आदेरिति ॥ इति दीर्घ इति शेषः । तथा च अभ्यासाकारस्य दीर्घे सति सवर्णदीर्घः । तदाह । आतेति ॥ अकारस्य हल्मध्यस्थत्वाभावादेत्वाभ्यासलोपौ न । लुङीति ॥ अतधातोर्लुडस्तिपि इतश्चेति इकारलोपे च्लेः सिचि तस्य इडागमे