२२८७ । उपसर्गादसमासेऽपि णोपदेशस्य । (८-४-१४)
उपसर्गस्थान्निमित्तात्परस्य णोपदेशस्य धातोर्नस्य णः स्यात्समासेऽसमासेऽपि । प्रणदति । प्रणिनदति । 'अर्द ५५ गतौ याचने च' अत आदेः' २२४८ ।
२२८८ । तस्मान्नुड्द्विहलः । (७-४-७१)
द्विहलो धातोर्दीर्घीभूतादकारात्परस्य नुट् स्यात् । आनर्द । आर्दीत् । 'नर्द ५६ गर्द ५७ शब्दे' । णोपदेशत्वाभावान्न णः । प्रनर्दति । गर्दति । जगर्द । 'तर्द ५८ हिंसायाम्' । तर्दति । । 'कर्द ५९ कुत्सिते शब्दे' । कुत्सिते कौक्षे कर्दति । 'खर्द ६० दन्दशूके' । दंशनहिंसादिरूपायां दन्दशूकक्रियायामित्यर्थः । खर्दति । चखर्द । 'अति ६१ अदि ६२ बन्धने' । अन्तति । आनन्त । अन्दति । आनन्द । 'इदि ६३ परमैश्वर्ये' । इन्दति । इन्दाञ्चकार । 'बिदि ६४ अवयवे' । पवर्गतृतीयादिः । बिन्दति । अवयवं करोतीत्यर्थः । 'भिदि' इति
णकारमुपदिश्य तस्य किमर्थं नकारो विधीयते । नकारएवोपदिश्यतामित्याशङ्क्य तत्प्रयोजनमाह । उपसर्गादिति ॥ रषाभ्यां नोण इत्यधिकृतम् । तदाह । उपसर्गस्थादिति ॥ समासेऽङ्गुलेः सङ्ग इत्यतः समास इत्यनुवृत्तेरसमासे नस्यादित्यसमासग्रहणम् । तथा सति प्रणाम इत्यादौ समासे नस्यादित्यपिग्रहणम् । तदाह । समासे असमासेऽपीति ॥ णस्योपदेशो यस्मिन्निति विग्रहः । प्रणदतीति ॥ भिन्नपदत्वादप्राप्ति । प्रणिनदतीति ॥ नेर्गदेति णत्वम् । नचात्र उपसर्गादसमास इति धातुनकारस्य णत्व शङ्क्यम् । अट्कुप्वाङभिन्नेन व्यवधानात् । अर्देति ॥ उपधायाञ्चेत्यत्र इक इत्युपस्थानात् अर्दतीत्यादौ न दीर्घः । लिटि णलि द्वित्वे हलादि शेषे अतआदेरित्यभ्यासाकारस्य दीर्घे आ अर्देतिस्थिते । तस्मान्नुडिति ॥ द्वौ हलौ यस्य तस्येति विग्रहः । तच्छब्देन अत आदेरिति कृतदीर्घः परामृश्यते । तदाह । दीर्घीभूतादिति ॥ टकार इत् । उकार उच्चारणार्थ. । टित्वादाद्यवयवः । तदाह । आनर्देति ॥ आर्दीदिति ॥ इटईटि इति सिज्लोपः । नर्देत्यादि स्पष्टम् । कर्देति ॥ । कुत्सितशब्देन कुत्सितविशेषो विवक्षित इत्याह । कुत्सिते कौक्ष इति ॥ कुक्षिभवे इत्यर्थः । खर्देति ॥ दन्दशूकः दंशनस्वभावस्सर्पः । दन्दशूको बिलेशय इत्यमरः । ननु सर्पस्य क्रियात्वाभावात् कथन्धात्वर्थत्वमित्यत आह । दंशनेति । अतिअदीति ॥ इदित्वान्नुम् । तदाह । अन्ततीति । आनन्तेति ॥ अत आदेरिति दीर्घः । तस्मान्नुड्द्विहल इति नुट् । एवमन्दति । आनन्देति ॥ आन्दीत् । इदीति ॥ परमैश्वर्यम् परमेश्वरीभवनम् । इन्दतीति ॥ इदित्वान्नुम् । इन्दांचकारेति ॥ इजादेश्चेत्याम् । बिदीति ॥ इदित्वान्नुमित्याह । बिन्दतीति ॥ नन्ववयवस्य अक्रियारूपत्वात् कथन्धात्वर्थत्वमित्यत आह । अवयवंकरोतीत्यर्थ इति ॥ अबिन्दीत् अबिन्दिष्टामित्यादि ।