१३० वखि १३१ मख १३२ मखि १३३ णख १३४ णखि १३५ रख १३६ रखि १३७ लख १३८ लखि १३९ इख १४० इखि १४१ ईखि १४२ वल्ग १४३ रगि १४४ लगि १८५ अगि १४६ वगि १४७ मगि १४८ तगि १४९ त्वगि १५० श्रगि १५१ श्लगि १५२ इगि १५३ रिगि १५४ लिगि २५५ गत्यर्थाः' । कवर्गद्वितीयान्ताः पञ्चदश । तृतीयान्तास्त्रयोदश । इह खान्तेषु 'रिख' 'त्रख' 'त्रिखि' 'शिखि' , इत्यपि चतुरः केचित्पठन्ति ओखति ।
२२९० । अभ्यासस्यास्सवर्णे । (६-४-७८)
इवर्णोवर्णान्तस्य अभ्यासस्येयङुवङौ स्तोऽसवर्णेऽचि । उवोख । संनिपातपरिभाषया 'इजादेः-' (२२३७) इत्यान्न । ऊखतुः । ऊखुः । इह सवर्णदीर्घस्याभ्यासग्रहणेन ग्रहणाध्द्रस्वः प्राप्तो न भवति । सकृत्प्रवृत्तत्वात् । आङ्गत्वाध्दिपर्जन्यवल्लक्षणप्रवृत्या ह्रस्वे कृते ततो दीर्घः ।
त्मनेपदिषु गत. । उख उखीति । पञ्चदशेति ॥ ईखि इत्यन्ता इति शेषः । त्रयोदशेति ॥ वल्गादय इति शेषः । तत्र इदित्वान्नुम् । आशीर्लिटि नलोपाभावाश्च । पठन्तीति ॥ तेषां मते खान्ता एकोनविंशतिरिति बोध्यम् । ओखतीति ॥ शपि लघूपधगुणः । लिटि णलः पित्वेन कित्वाभावात् प्राप्तस्यापि लघूपधगुणस्य द्विर्वचनेऽचीति निषिद्धतया गुरुमत्वाभावादामभावे सति पूर्वन्द्वित्वे कृते हलादि शेषे पश्चात् वार्णादाङ्गम्बलीय इति परिभाषया अन्तरङ्गमपि सवर्णदीर्घम्बाधित्वा लघूपधगुणे कृते उ ओख् अ इति स्थिते, उवर्णम्य यणि प्राप्ते । अभ्यासस्येति ॥ अचि श्नुधात्वित्यतः अचीति, य्वोरियडुवढाविति चानुवर्तते । इश्च उश्च य्वौ तयोरिति विग्रहः । अभ्यासविशेषणमिदं तदन्तविधिः । तदाह । इवर्णोवर्णान्तस्येति ॥ डित्वादन्तादेशौ । उवोखेति ॥ अचिश्नुधात्वित्यस्यतु नात्र प्राप्तिः । अजादौ प्रत्यये परत एव तत्प्रवृत्तेः । अभ्यासस्य अङ्गत्वाभावाच्च । ननु द्वित्वे कृते लघूपधगुणे राति इजादिगुरुमत्त्वादाम् स्यादित्यत आह । सन्निपातेति ॥ णलि परे विहितगुणसम्पन्नमिजादिगुरुमत्वमाश्रित्य प्रवृत्तमामं गुणो न प्रवर्त्तयति । आमि सति धातोर्णल्परकत्व०याघातादिति भावः । ऊखतुरिति ॥ अपित्त्वेन कित्वात् लघूपधगुणाभावे द्वित्वे हलादिशेषे सवर्णपरकत्वादभ्यासस्यासवर्ण इति इयङभावे सवर्णदीर्घे रूपमिति भावः । ननु ऊखतुरित्यत्र ऊकारस्य सवर्णदीर्घसम्पन्नस्य एकादेशतया पूर्वान्तत्वेनाभ्याससम्बन्धित्वात् ह्रस्व इत्यभ्यासस्याचो विधीयमानो ह्रस्वः प्राप्नोतीत्याशङ्कते । इह सवर्णदीर्घस्य अभ्यासग्रहणेन ग्रहणाध्द्रस्वः प्राप्त इति ॥ अथ परिहरति । न भवतीति ॥ कुत इत्यत आह । सकृत्प्रवृत्तत्वादिति ॥ तदेवोपपादयति । आंगत्वादिति ॥ उ उखतुरिति स्थिते पर्जन्यवल्लक्षणप्रवृत्या अभ्यासह्रस्वे सवर्णदीर्घे ऊखतुरिति स्थितिः । तत्र ऊकारस्य पुनरभ्यासह्रस्वो न भवति । लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरिति न्यायादित्यर्थः । हलादिशेषे ह्रस्वे च कृते पश्चात्प्रवर्तमानस्य