पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
६७
बालमनोरमा ।


'वार्णादाङ्गं बलीयः' इति न्यायात्परत्वाच्च । उङ्खति । ववाख । ववखतुः । वङ्खति । मेखतुः । मङ्खति । ममङ्ख । नखति । नङ्खति । रखति । रेखतुः । रङ्खति । एखति । इङ्खति । ईङ्खति । वल्गति । रङ्गति । लङ्गति । अङ्गति । वङ्गति । मङ्गति । तङ्गति । त्वङ्गति । श्रङ्गति । श्लङ्गति । इङ्गति । रिङ्गति । लिङ्गति । रेखति । त्रखति । त्रिङ्खति । शिङ्खति । 'त्वगि ' कम्पने च । 'युगि १५६ जुगि १५७ बुगि १५८ वर्जने' । युङ्गति । 'घघ १५९ हसने' । घघति । जघाघ । 'मघि १६० मण्डने' । मङ्घति । 'शिघि १६१ आघ्राणे' । शिङ्घति ।

अथ चवर्गीयान्ताः । तत्रानुदात्तेत एकविंशतिः । 'वर्च १६२ दीप्तौ' । वर्चते । 'पच १६३ सेचने, सेवने च' । सचते । सेचे । सचिता । 'लोचृ १६४



सवर्णदीर्घस्य पूर्वम्पूर्वमन्तरङ्गम्परम्पर बहिरङ्गमिति न्यायेन बहिरङ्गत्वादित्यलम् । उंखतीति ॥ इदित्वान्नुम् । ववाखेति ॥ वखधातोर्णलि उपधावृद्धि । ववखतुरिति ॥ वादित्वादेत्वाभ्यासलोपौ न । वंखतीति ॥ वखिधातोरिदित्वान्नुम् । ववङ्ख । मेखतुरिति ॥ एत्वाभ्यासलोपौ । मङ्खतीति ॥ मखिधातोरिदित्वान्नुम् । ममंखेति ॥ सयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ न । नखति, नंखतीति ॥ णोन इति नत्वम् । रखतीति ॥ णलि तु उपधावृद्धि । रराख अतुसादावेत्वाभ्यासलोपौ । रेखतुरित्यादि । रंखतीति ॥ इदित्वान्नुम् । ररङ्ख । एखतीति ॥ इखधातेाश्शपि लघूपधगुणः । इयेख । ईखतु । इंखतीति ॥ इदित्वान्नुम् । इङ्खाञ्चकार । ईंरवतीति ॥ अलघूपधत्वान्न गुण. । ईखांचकार । वल्गतीति ॥ लिटि ववल्ग ववल्गतुः । रंगति, लंगतीति ॥ ररङ्गतुः । अंगतीति ॥ लिटि आनङ्ग । वंगतीति ॥ लिटि ववङ्ग ववङ्गतुः । मंगतीति ॥ लिटि ममङ्ग ममङ्गतुः । तंगतीति ॥ लिटि, ततङ्ग, ततङ्गतुः । त्वंगतीति ॥ लिटि तत्वङ्ग , तत्वङ्गतुः । श्रंगतीति ॥ लिटि शश्रङ्ग शश्रङ्गतुः । श्लंगतीति ॥ लिटि शश्लङ्ग शश्लङ्गतुः । इंगतीति ॥ लिटि इङ्गाञ्चकार । रिंगतीति ॥ लिटि रिरिङ्ग रिरिङ्गतुः । लिंगतीति ॥ लिटि लिलिङ्ग लिलिङ्गतुः । अथ खान्तेषु रिखादिचतुर्णां मतान्तरसिद्धानामुदाहरणमाह । रेखतीति ॥ शपि लघूपधगुण । रिरेख रिरिखतुः । त्रखतीति ॥ लिटि तत्राख तत्रखतुः । त्रिंखतीति ॥ लिटि तित्रिङ्ख तित्रिङ्खतुः । शिंखतीति ॥ लिटि शिशिङ्ख शिशिङ्खतुः । त्वगि कम्पने चेति ॥ चाद्नतौ । त्वङ्गति तत्वङ्ग । युगीति ॥ त्रयोऽपि इदितः । युङ्गति वुङ्गति जुङ्गति । घघ, हसने इति ॥ घघति । णलि उपधावृद्धिः । जघाघ जघघतुः । लिण्णिमित्तादेशादित्वादेत्वाभ्यासलोपौ न । मघिमण्डन इति ॥ इदित्वान्नुमित्याह । मंघतीति ॥ ममङ्घ ममङ्घतुः । शिघि आघ्राण इति ॥ शिङ्घति शिशिङ्घ । फक्कादयः पञ्चाशद्गताः । वर्च दीप्ताविति ॥ दीप्ति प्रकाश । षच, सेचन इति ॥ अच्परकसादित्वात् षोपदेशोऽयम् । स्वरितेत्सु षच समवाय इति वक्ष्यते । सेच इति ॥ सत्वस्य लिण्णिमित्तत्वाभावादादेशादित्वेऽपि एत्वाभ्यासलोपौ । दम्भः