पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७३
बालमनोरमा ।

२२९४ । अचस्तास्वत्थल्यनिटो नित्यम् । (७-२-६१)

उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट् ततः परस्य थल इण्णस्यात् ।

२२९५ । उपदेशेऽत्वतः । (७-२-६२)

उपदेशेऽकारवतस्तासौ नित्यानिटः परस्य थल इण्णस्यात् ।

२२९६ । ॠतो भारद्वाजस्य । (७-२-६३)

तासौ नित्यानिट ॠदन्तस्यैव थलो नेट् भारद्वाजस्य मतेन । तेनान्यस्य स्यादेव । अयमत्र संग्रहः--



वक्ष्यन् तदुपयोगित्वेन सूत्रद्वयमुपन्यस्यति । अचस्तास्वदिति ॥ अधातोस्थलभावाद्धातोरिति लभ्यते । अच इति तद्विशेषणम् । तदन्तविधिः । उपदेशेऽत्वत इत्युत्तरसूत्रादुपदेश इत्यपकृष्यत इति ॠतोभारद्वाजस्येति सूत्रभाष्ये स्थितम् । उपदेशे अजन्तादित्यन्वयः । अनिट इति बहुव्रीहेः पञ्चमी । नित्यमिड्विहीनादित्यन्वयः । तासि च क्लृप इत्यतस्तासीत्यनुवर्तते । तासौ नित्यमनिट् इत्यन्वयः । थलीति षष्ठ्यर्थे सप्तमी । गमेरिट् परस्मैपदेष्वित्यत इडिति, नवृभ्द्यश्चतुर्भ्य इत्यतो नेति चानुवर्तते । उपदेशे योऽजन्त इत्यादि । इण्णस्यादिति ॥ तास्वदिति शेषः । सप्तम्यन्ताद्वति । यथा तासि नेट् तथा थल्यपि नेट् इत्यर्थ । चिचेथ, जुहोथेत्याद्युदाहरणम् । अत्र क्रादिनियमप्राप्त इण्णभवति । अजन्तात्किम् । बिभदिथ । उपदेश इति किम् । हृञ् जहर्थ । इह गुणे रपरत्वे अजन्तत्वाभावादिण्णिषेधो नस्यादित्युपदेशग्रहणम् । नित्यग्रहणङ्किम् । स्वृ गतौ, सस्वरिथ । स्वरतिसूतीति तासौ विकल्पितेट्कत्वान्न निषेधः । तासौ किम् । लुलुविथ । थलः किम् । पपिव । पपिम । इह तासीत्यनुवृत्यैव सिद्धेस्तास्वदिति नातीवोपयुज्यते इति केचित् । वस्तुतस्तु यस्तासौ विद्यते तस्मादेव परस्य थल इण्णिषेधार्थन्तास्वदित्यावश्यकम् । तेन लिट्यन्यतरस्यामित्यतो घस्लृभावे जघसिथेत्यत्र न निषेधः । घसस्तासावभावादिति अद भक्षण इति धातौ मूल एव वक्ष्यते । यस्तासावस्ति अनिट्चेति भाष्यम् । उपदेशेऽत्वतः इति ॥ अत्बत इति छेदः । अत् ह्रस्वाकारः सः अस्य अस्तीति अत्वात् । तसौ मत्वर्थ इति भत्त्वान्न जश्त्वम् । अच इति वर्जम् पूर्वसूत्र, तत्र यदनुवृत्तन्तदप्यनुवर्तते । तदाह । उपदेशे अकारवत इति ॥ शक्लृ शशक्थ । पच् पपक्थेत्युदाहरणम् । अथ क्रादिनियमप्राप्त इण्णभवति । उपदेशे किम् । कृष विलेखने । चकर्षिथ । अत्वत इति किम् । बिभेदिथ । तपर किम् । रराधिथ । तासौ किम् । जगर्हिथ । जिघृक्षतीत्यादौ सनिग्रहगुहोश्चेति सनि नित्यमनिट् । नतु तासौ । नित्येति किम् । अञ्ज आनञ्जिथ । ऊदित्वात्तासौ वेडिति भाष्यम् । चक्रमिथेत्यप्युदाहरणम् । स्नुक्रमोरिति नियमेनात्मनेपदे तासावनिट्कत्वेऽपि परस्मैपदे सेट्कत्वात् । ऋतो भारद्वाजस्येति ॥ तासौ नित्यमनिट् इति थलीति नेति इडिति चानुवर्तते । भारद्वाजस्य मते ॠदन्ताद्धातो परस्य थलो नेडिति फलितम् । हृञ् धृञादौ अचस्तास्वादित्येव सिद्धम् । अतो नियमार्थमिदमित्याह । ॠदन्तादेव थलो नेडिति । अनृदन्तात्परस्य तु थल इट् स्यादेवेत्येवकारार्थः । तदाह । अन्यस्य स्यादे-